________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
यद्वोधमासाद्य जिनोक्तधर्म, श्रीमेदपाटाधिपतिः समाचरत् ॥ १४ ॥ सभीमसिंहोनृपतिः स्वभक्क्या, श्रीजैनसंघस्यगुरुप्रतापात् । कार्याणिभूयासिमहोपकृत्यै, संपादयामासविनीतभावः ॥१५॥ तत्रत्यसंघस्य महाग्रहेण, पद्मप्रभोस्तेनमुनीश्वरेण । चके प्रतिष्ठाऽञ्जनरेखयान्विता, महामहेनोन्नतिहेतुभूता ॥ १६॥ तत्रैवतेनाजितनाथभर्नुखिलोकनाथस्य सुरम्यबिम्बम् । प्रतिष्ठितं लोकसुखाय साञ्जन-रेखं धरानाथविवोधकेन ॥ १७ ॥ तत्पट्टश्रियमावभार विकसदुद्धिर्जिनोक्तागमे, भूकिव्यातसरूपसागरमुनिर्भव्याङ्गिनां भव्यवाक् । निर्दोषश्रमणाईधर्मसरणीं प्रख्यापयद्भिनिजैः, शिष्यैः सेवितपादपद्मयुगलः शुद्धक्रियाराधकः ॥ १८ ॥ तत्पदश्रियमनुत्तमोर्जिता, ज्ञानसागरमुनीश्वरो दधौ । यद्विशुद्धगुणराशिराजितं, राजतेस्म ककुमाहि मण्डलम् ॥१६॥ तत्पट्टश्रियमद्भुता मुनिवरः प्रद्योतयामासिवान् , सबैराग्यसुरङ्गरञ्जितमनाः श्रीमन्मयासागरः। माया येनतपस्विना परिहृता नागप्रियेवक्षणा-त्सदोधामृतसिञ्चनेन जनता जातप्रमोदा व्यधात् ।। २०॥
तत्पट्टदेवगिरिसानुनि भासमाना, श्रीनेमिसागरमुनिः कलितामरधीः । सावधपक्षमनिशं परिभूयभव्या-न्सर्वोतिशायिविभवान्सुतरां चकार ॥ २१ ॥ योलब्धलब्धिरनघश्रमणाग्रगामी, सद्बोधवृष्टिवशतो वशिनां वरेण्यः।
भूमीतलं जिनवृषाङ्कुरितं विहारं, कृत्वातिरम्यचरितः सुतरांचकार २२ ॥ तत्पट्टाश्रियमाततान विबुधश्चारित्रचूडामणिः, श्रीजुष्टो रविसागरो रविरिव प्राप्तप्रतापोत्करः ।
For Private And Personlige Only