________________
शीर्वादं दत्त्वा निजवाञ्छितं जगाद-महाराज ! मम कन्यकाया विवाहसमयः संप्राप्तस्तत्रसहस्रद्वयं रूप्यका अपेच्यन्ते । निष्किश्चनोऽहं भवदन्तिके समागतोऽस्मि । तस्मादिम श्लोकं ग्रहणके गृहीत्वा सहस्रद्वयं रूप्यकान्मह्यं देहि, भवदीयं महान्तमुपकारं गणयिष्यामीत्यभिधाय तं श्लोकं श्रावयित्वातत्पत्रं तस्मै स समर्पितवान् । तत्पर्य यथा-"न भवतियन्नहिभाव्यं, भवति हि भाव्यं विना प्रयत्नेन । करतलगतमपिनश्ये-नास्तिहि भवितव्यता यस्य" ॥१॥ ततो नृपतिस्तत्पत्रस्थितं श्लोकं गृहीत्वा निजपाघे विमुच्य रूप्यकाणां द्विसहस्रं प्रदाय तं पण्डितं व्यसृजत् । लब्धेष्टधनः शशिचन्द्रोऽपि स्वगृहमागत्य महोत्सवपुरःसरं पुत्रीविवाहं साधयामास । इतः प्रजापालभूपतिना कतिचिद्दिनानि तत्पण्डितदत्तं श्लोकपत्रं निजान्तिके रचितम्, ततः कियति काले गते तत्पत्रं विस्मृतीभूयालक्ष्यतां गतम् , अन्यदा राज्ञा तद्गवेषणा बहुधा कारिता, तथापि तत्प्राप्तिर्नजाता । तदा भूपतिना चिन्तितम्-यदिसपण्डितस्तच्छ्लोकानयनार्थमागमिष्यति, तर्हि तस्मै किमुत्तरं दास्यामि ! मदन्तिके तनास्तीति कथनेन शुद्धव्यवहारोमेकलङ्कितो भविष्यति । यदि तेन सकले धने प्रदत्ते तदीयं श्लोक न ददामि तर्हि लोकेऽपि यावजीवमपयशस्तिलकं स्यात् । तस्मादिदानी किं कर्त्तव्यं मयेति चिन्तया व्यग्रमानसो भूपतिविदास्ते तावच्छशिचन्द्रः सकुसौदै मूलधनं समादाय नृपमन्दिरमभ्येत्य राज्ञोऽग्रे रूप्यकराशि चकार । भूपतिस्तद् द्रव्यराशिं निरीक्ष्य निजमानसे व्यचिन्तयत् जगत्पते ! विद्यमानेयं राज्यलक्ष्मीविनश्यतु, वा ममोपरितीक्ष्णखड्ग प्रहाराः समापतन्तु, किंवाऽस्मिन्नेव समये मे मृत्युर्भवतु, एतत्सर्व वरं मन्ये । परं मदीया बुद्धिर्धर्मपथाद्विच्युता मा जायताम् । इत्थमनेकधा नृपतिः स्वचेतसि परमात्मनः स्तुतिं कुर्वन्नास्ते तावत्पण्डितोऽवदत्-राजन् ! इमे भवदत्ता रूप्यकास्त्वया
For
And Persone Oy