________________
Acharya Shresgarten Gyaan
बी
चतुर्थः
अजितसेन शीलवतीचरितम् ।
॥८६॥
गृह्यन्ताम् , महत्तः श्लोको मे प्रत्यर्प्यताम् । एतादृशं पण्डितवचनं निशम्य नरपतिरमाणीत-विद्वद्रत्न ! भवता यद्धनं दत्तं || तेन साम्प्रतं नास्ति मे प्रयोजनम् , त्वरां किमर्थ करोषि, तावतैवधनेन सकलानि मे कार्याणि भविष्यन्तीति त्वया न प्रस्तावः। मन्तव्यम् । तेनैव नास्ति मे कर्त्तव्यसंकेतः, भवतो वेश्मनिस्थितमपि तद्धनं मद्गृहेनिपतितमेव जानामि । भवदीयम विश्वास मनागपि न चिन्तयामि, भवान्प्रसन्नीभूयेदं धनं गृहीत्वा सुखेन निजगृहं प्रयातु । समयान्तरे त्वयैतद्यथेच्छ दातव्यम् । एवंविधं नृपतिवचनं निशम्य पण्डितेनामाणि-भूपते ! अधुना प्रयोजनमन्तरा परकीयं धनं किमर्थ रक्षामि ! प्रतिदिनं कुसीदवृद्धिं तुरङ्गमा अपि न प्राप्नुवन्ति । तथाविधा लोकश्रुतिरपि गीयते-" यद्येकेन रामेण दशाननस्य नगरी लुण्टिता तर्हि द्वादशभिस्तादृशै रामैः किं न विधीयते!" तच्छ्रुत्वा राजाऽवदत्-विद्वन् । अस्य धनस्य व्ययस्त्वया सुखेन विधीयताम् , अस्य धनस्य कपर्दिकामात्रमपि कुसीदं मयानापेक्ष्यते, किश्च कदाचिदस्य वित्तस्यापेक्षा मम जनिष्यति तदा भवतः पाश्चान्मूलमात्रमेवद्रव्यं गृहीष्यामि । इति नृपतिवचनं प्रमाणीकृत्य धनराशि च समादाय पण्डितः स्वस्थान जगाम । अथ भूपतिर्निजमानसे व्यचिन्तयत्-अधुनात्वापतितं कार्य मया निर्वाहितं तथाऽपि स श्लोकः कस्मिन्नपि समये
पण्डिताय प्रत्यपेणीयो मया नूनम् , तस्य लब्धिस्तु सर्वथा न विद्यते । अतस्तत्प्राप्त्यर्थ कश्चिदुपायो मयाऽवश्यं विधातव्यः । या इति चिन्तयतो नृपतेस्तच्छ्लोकस्य स्वान्तिके चिरस्थायित्वात्स्मृतिः समुत्पन्ना, यस्य चेदमादिमं पदं (न भवति ) इति
साध्यविषयं विधाय धृतधैर्यः स्वराज्यधुरं विश्वस्ताय निजामात्याय प्रदायस्वयं यात्रानिमित्तेन देशान्तरं जगाम । ततो भूपतिः परिभ्रमन्कियद्भिर्दिवसैविविधशोभाभिर्विभूषितेऽतीवमनोहरे मदनपुराभिधे पत्तने जग्मिवान् । यद्यपि स्वयं राज्यधरः ॥ ६॥
For Private And Personale Only