________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
श्री
चतुर्थः प्रस्तावः।
अजितसेन
चरितम ॥८॥
प्रिया प्रीतिमार्गस्यविद्वेषिणी परित्यक्तकुलरीतिर्या नारीभवेत्साशंखिनीत्यभिधीयते । इत्थं सुमतिचन्द्रः सम्यक्त्रवणतत्पराणामरिमर्दननृपतेस्तत्प्रधानानाश्चाग्रे पुरुषनारीणां भेदानुक्त्वा पुनः प्रोवाच-राजेन्द्र ! अस्मिञ्जगति सज्जना अपि वसन्ति, तथैवदुर्जना अपि वसन्ति, गुणिनोऽपिसन्ति दुर्गुणिनश्चापिसन्ति, तस्मादनेन प्रधानचतुष्टयेन भवतो
यानि दृष्टान्तानि कथितानि तानि सर्वाणि दुर्गुणाङ्गनानामेव । साम्प्रतमहं सद्गुणशालिन्याः स्त्रिया एका वार्ता ब्रवीमि, | तां सावधाना यूयं सर्वे शृणुत । पुरा प्रतिष्ठानपुरे विद्वञ्जनमूर्धन्यः सर्वगुणसंपन्नः शशिचन्द्रनामा कश्चित्पण्डितोन्यवात्सीत् । तस्य यशोभद्रा भार्याऽभूत् । तयोश्चैकाभूरिप्रेमास्पदं निर्जितदेवाङ्गनाङ्गलावण्या सुभद्राभिधाना पुत्री बभूव । प्राप्तनवयौवनां तां विवाहयोग्यां विलोक्य यशोभद्रा मधुरवचसा निजस्वामिनमवादीत्-प्राणप्रिय ? अस्मत्पुत्री सुभद्रा यौवनारूढां कि न विलोकयसि ? साम्प्रतं सा विवाहयोग्या जाताऽस्ति, ततोऽचिरादेव तद्योग्यमुचितगुणरूपशालिनं विद्यावित्तसमन्वितं वरं विशोध्य तेन सार्द्धपुत्रींपरिणाय्य संसारसुखमनुभवाव । एवं निजभार्योदितं वचनं योग्यतमं विज्ञाय शशिचन्द्रस्तद्वचनं प्रमाणीकृत्याविलम्बतया निजाभीष्टं किश्चिदपि नगरंगत्वाकस्यचिद्गृहस्थस्य गुणचातुर्यकलानिधानममितरूपं कुमारं प्रसन्नीकृत्य तस्मिन्नेवसमये विवाहसंबन्धं विधाय लग्नदिवसं शुभं निर्धार्य स्वगृहमाययौ । निजभार्याय सर्वतवृत्तान्तं निवेद्य शशिचन्द्रोविवाहोचितसंभारान्मेलयितुमुद्युक्तोऽभवत् । तदन्तिके किश्चिदपि धनं नासीद, ततः स व्यचिन्तयत्-स्वयं विद्वानस्मि, अस्मिन्नगरे लब्धप्रतिष्ठोऽस्मि, अतोऽस्मिन्कार्ये प्रभूतधनव्ययोमे भविष्यति । प्रागेवतत्प्राप्त्युपायोमया विधातव्य इति विचार्य स्वबुद्धिप्रभावेण नूतनमेकं श्लोकं विरचय्य प्रजापालनाम्नस्तन्नगराधिपतेः समीपं गत्वा शुभा
|||८५॥
For Private And Personlige Only