________________
Acharya hi
s agarten Gyomande
श्री I अजितसेन
तृतीयः
शीलवती
चरितम् ।।
। ७८॥
| समस्तवचनंजनानां, न सत्यतामेति कदाचिदत्र । तस्मात्सुधीभिः प्रविधायसाक्षा-द्विनिर्णयस्तस्य शनैर्विधेयः ।।१।। अथ द्वितीय ।
स्मिन्वासरे बालचन्द्रस्तदेवकार्य प्रत्यक्षीकर्तुं स्वगमनसमयं व्यतिक्रम्य निजगृहाङ्गणे गत्वाबाढस्वरेण "द्वारमुद्घाव्यता" प्रस्तावः। | मितिमुहुराक्रोशंचकार । तस्मिन्नवसरे चन्द्रसेनमेनावत्यौ परस्परंहास्यादिविनोदंचक्रतुः । तदेतद्धालचन्द्रस्योद्घोषणां निशम्य मेनावती वित्रस्तहृदया व्यचिन्तयत्-अधुनाऽयंसहचर क्वगोपनीयः १ द्वारिस्थितः श्रेष्ठीतुत्वरमाणो भृशमाराटी करोति । इति चिन्ताग्रस्तमानसा मेनावती तत्कालोत्पनबुद्धिप्रभावेण गृहस्यैकस्मिन्कोणे किलिकाऽवलम्बमानायां स्कन्धवाद्यायां वेपमानचन्द्रसेनसंगोप्य निद्रितोत्थितेव चक्षुषीमईयन्तीनीचैः समुत्तीर्य गृहद्वारमुद्घाख्य निजपतिसच्चक्रे । पुरैव विज्ञाततदीयवृत्तान्तः क्रोधाग्निध्मातहृदयो बालचन्द्रोदृढीयसी यष्टिगृहीत्वागृहान्तः परितस्तंजारपुरुषं मृगयतिस्म । परंगुप्तीकृतंतमविलोक्यश्रान्तः स सुखशयने निषसाद । ततोमेनावती हावभावं व्यज्जयन्ती तदन्तिके समागत्यमधुरवचनैः पृच्छतिस्म-प्राणवल्लभ ? सांप्रतं विषण्णमानसः कर्थलक्ष्यसे ? वेश्मन्यपि समयमन्तराऽद्य सत्वरं समागतोऽसि, तत्कारणमा निवेदय । इत्येतद्वचनं श्रुत्वा भृशंक्रुद्धः स महेभ्योरक्ताङ्ग सद्यःसमुत्थाय जम्पन्तीं निजभार्यातिरस्कृत्य कथयतिस्म-एषा स्कन्धवाह्या मयानविलोकिताऽस्तीत्यभिधाय यावत्करस्थितेन दण्डाग्रेणतामास्फालयति तावत्प्रभीतेन तस्यांस्थितेन चन्द्रसेनेन व्यग्रतयामूत्रधाराविहिता, तेन मूत्रप्रवाहेण तदधास्थितोलूखलःसंभृतः । तदानींमेनावतीभृशंरक्तेचणा तमुवाचस्वामिन् ? किमद्यविजयापानं विहितम् ? किंवा मनोभ्रमजनकमन्मद्भक्षितम् । भूरिप्रयासेनमयासमानायितमिदं काचभाजने संभृतंगगोदकं स्कन्धवाह्यायां संस्थापितमासीत् , तानि च काचपात्राणित्वया यष्टिप्रहारेण स्फोटयित्वा तज्जलंसकलं विप्ला- ॥७८॥
For Private And Personale Only