________________
Shri Mahavir Jain Aradhana Kendra
K+-*******************
www.kobatirth.org
वितम्, येन जलेना मुलूखलोऽपूर्वत । निरीचस्व दृष्टिप्रसार्य, तस्यगङ्गोदकस्य पानं कुरुष्वान्यथा महापापस्य भाजनं भविष्यसि । तथाविधं तद्वचनं निशम्य यथार्थतन्मन्यमानो बालचन्द्रस्तस्य चत्रियकुमारस्य मूत्रपानमकरोत् । चारं विचित्र गुणश्वतद्विज्ञाय तेनस्वभार्या पृष्टा वल्लभे १ किमिदंगाङ्गंवारि चारदृश्यते । सावदत्- स्वामिन् । गङ्गोदकंतु सर्वदा सुस्वादुभवति, परंह्योमयोलूखलेलवणं चूर्णितम् । तस्माचत्वारं संजातमितिकूट प्रत्युत्तरप्रदानेन मेनावती सरलस्वभावं निजपतिं वञ्चयित्वा निजसहचरस्य मूत्र पानमकार्यत् । ततो बालचन्द्रो लब्धश्रमोविलक्ष्यीभूय निजापण मगमत् । ततो मेनावती निजसहचरंचन्द्रसेनं स्कन्धवाद्यायाः समुत्तार्य चैकं दीनारंप्रदाय निजस्थानंव्यसृजत् । द्वितीयस्मिन्दिने चन्द्रसेनः पूर्ववद्भालचन्द्रस्यापण मियाय । वार्त्तालाप प्रकुर्वश्चन्द्रसेनोविहस्यतंप्रोवाच- प्रियमित्र १ ह्यस्तनेवासरेयदाश्चर्यं जातंतत्किमद्यवर्णयामि ? कदापिनैतादृशं मयाविलोकितमित्यभिधाय सूत्रपानावधि सर्वं वृत्तान्तं निवेद्य तत्स्मृत्वाऽद्याऽपिहास्यं न विरमति, महाकौतुकमेतदासीदित्थं ब्रुवाणः कराभ्यां जठरं गृहीत्वा भूरिहास्यमकरोत् । चन्द्रसेनमुखादिति निजगृहस्य वार्तां निशम्य बालचन्द्रस्यहृदये वह्निज्वाला समुत्तस्थौ । तथाsपि साचाददृष्टत्वात्स उपायशून्यः किंकुर्यात् ? प्रचण्डक्रोधाग्निज्वाल याभृशंतप्तोऽपिस पुनः शान्तोजातः । मूत्रपानस्य स्मरणं कुर्वतस्तस्यश्रेष्ठिनोत्रमनशङ्काव भूत्र, तथापि विचारसदौषधेनतां निवारयामास । स्वमनासे सचैर्वव्यचिन्तयत् - अयंक्षत्रियकुमारः प्रत्यहं ममभार्यया साकं विषयसुखविलासानिर्विशति । मिष्टवचनैर्मयासार्द्ध मैत्रींतनोति । स्वकीयं मूत्रजलंमामपाययत् । किमिदमस्य दुराचारस्य चेष्टितं साधारण मस्ति । परंनिरुपायोहं किंकरोम्यधुना । अथैवं वर्त्तमाने कियदिनानन्तरं तस्यां वार्त्तायां स्मृतिमुपागतायामेकस्मिन्दिने बालचन्द्रो ऽपराह्नसमये निजापणंमुद्रयित्वा स्वगृहंप्राप्य द्वारमुद्भाव्यतामितिभृशंचुक्रोश ।
१४
For Private And Personal Use Only
harya Shri Kallissagarsuri Gyanmandir
←*******************←→←