________________
Shri Mahavir Jain Aradhana Kendra
श्री
अजितसेन
शीलवती चरितम् ।
॥ ६६ ॥
->***<+> ; - •**<*O*** **-•*®*••
www.bobatirth.org.
निश्चयमकार्षीत् कस्यचिद्राज्ञो जातमात्रां पुत्रीं परिणीयताश्चभूमिगृहे संरक्ष्य प्राप्तयौवनया तयासार्द्ध भोगविलासः कार्यः । प्रायेण स्त्रीणां पुरुषाणाश्चानार्य संगमादेवदोषाः समुद्भवन्ति । भ्रूगृहान्तर्वासेनकस्याऽपि जनस्यसङ्गमन्तराकुतो दोषापत्तिर्भविष्यति ? एवं सुदृढनिश्चित्यभूपतिः स्वकीयान्सेवकान्समाहूय कामपिनिजयोग्यां भूपकन्यामानेतुं देशान्तरंप्रैषीत् । नृपाज्ञांगृहीत्वासस्वर प्रयाणं कुर्वाणा राजभृत्याः सुरूपां सद्योजातामेकां राजपुत्रीं समादाय स्वस्वामिने समर्पयामासुः । ततः सनृपतिरपितयाबालयासह लग्नविधाय निजप्रासादस्यभृगृहान्तरेतां स्थापयतिस्म । तस्याः संरक्षणार्थश्चैकां धात्रीममुचत् । प्रतिदिनं पान्यमाना सावृद्धिमियाय । तदा भूपतिस्तांधात्रीं भूगृहाद्वहिः समाहूयेति समादिशत् - अतः परंतस्याबालायाः केशप्रमार्जनार्थं वस्त्रादीनाञ्च परिधापनार्थमेवत्वया भूगृहान्तरे गन्तव्यम् । तया सार्द्धवचनमात्रमपि नवक्तव्यमिति मदाज्ञाऽद्यारभ्यत्वया पालनीया । अथ प्राप्तयौवना सा बालाबभूव तदातांधात्रीमपितत्रव्रजन्तीं स न्यषेधयत् । तस्याश्चाभिधानं पातालसुन्दरीति राज्ञाविनिर्मितम् । यतः सा भूमिगृहान्तरे स्थित्वावृद्धिजगाम । रूपलावण्याभ्यांनिर्जितनागकन्या कान्तिरासीत्तस्माद्यथार्थनामधारिणी साविरेजे । अथाजन्मशुद्धया पतिभक्तौ दृढतररागशालिन्या तयासहमोदमानः स भूपतिर्विविधान्भोगान्बुभुजे । सा पातालसुन्दरी परपुरुषस्य मुखमपिनैचिष्ट । अत एवैषा सर्वथाविशुद्धशीलधारिणी पतिव्रतैक चूडामणिरस्तीतितां मन्वानो भूपतिस्तस्मिन्भूमिगृहेबहुधा न्यवसत् । यदानिजोचितमावश्यकं कार्यभवे सदैव सब हिरायाति । अथान्यदानिजकान्त्या निर्जितमन्मथरूपो बहुभिर्जनैः परिवेष्टितोऽनेकविधवस्तुजातसमन्वितोऽनङ्गदेवाख्यः कश्चित्सार्थवाहको मणिद्वीपात्चत्रसमागतः । यस्मिन्नगरेयः प्रधानःस प्रसादयितव्य इतिध्यात्वा सश्रेष्ठीनिजान्तिकादामलकस्थूलानामनणांमौक्तिकानामस्मिँल्लोके दुर्लभानामेकं मनोहरं हारमपराणि च सारभूतानि वस्तू
For Private And Personal Use Only
→→→*****************@*********
Acharya Shri Kassagarsun Gyanmandir
तृतीयः प्रस्तावः ।
।। ६६ ॥