________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
निगृहीत्वा तमगराधिपतेः सनिधोगत्वा प्रणिपातंविधाय तत्सर्वप्राभृतीचकार । तद्वस्तुनिरीक्षणेनराजा स्वयं सन्तुष्यतस्यानङ्ग देवव्यवहारिणः शुल्कं न ग्राह्यमिति निजाधिकारिणो नरानाज्ञापयत् । ततः सव्यवहारी मणिमौक्तिकावालसुवर्णप्रमुखानि सकलानि सारवस्तूनि विक्रीय कोटिधनानामधिपोऽजनिष्ट । स्वनिवासहेतामणिमयमेकं प्रवरं प्रासादं पटुभिः शिल्पिभिरकारयत् । इतोनृपतेश्रामरधारिणी कामंपताकाभिधाना तर्जितदेवाङ्गनाकान्तिर्गणिका तस्मिन्नगरे बभूव । प्रभूतं धनं दत्वाता स्ववशवर्तिनी विधायतयासाकं सोऽनङ्गदेवो यथेष्टं विषयसुखमनुवभूव । अथैकस्मिन्दिवसेऽनङ्गदेवोऽवकाशमधिगम्यकामपताकामपृच्छन्-वामोरु ? अस्यनगरस्याधिपतिः सदान्यायसभायां यथासमयं नागच्छति, जातुचिदायातिचेत्सत्वरं समुत्थाय स्वालयव्रजति, तस्यमनसः स्थैर्य सुष्ठु न दृश्यते । स्वयंद्यूतादिव्यसनेषु पराङ्मुखोदृश्यते । तथैव परस्त्रियं मातृसमांगणयति । तथापि तस्य नृपतेहृदयं व्यग्रतरं कथं लक्ष्यते ? इत्थमनङ्गदेवस्य वचनं निशम्यगणिकाप्रोवाचनरोत्तम ? भवतः प्रश्नस्योत्तरन्त्वहं न जानामि, परन्त्वेताववृत्तान्तमहवेग्रि, तद्यथा-अस्यपत्तनस्याधिपतिः शुद्धान्तवर्तिनीषु श्रेष्ठतमया कयाचिदेकयाराश्याविमोहितः सन्नहर्दिवैतिष्ठति, तामेव स्त्रियंस्वसन्निधौराजारक्षति, तांकदाचिदपिभूमिगृहादहिर्ननिष्कासयति । यतः सापरपुरुषं न विलोकयति । स्वयश्चतया सह विषयसुखं यथाभिलाषं भुनक्ति । भूपतिस्ता कन्यां जातमात्रां परिणीय तत्कालमारभ्याद्यावधि भूमिगृहे रक्षितवान् । इत्थं गणिकोक्तवचनानि समाकये पटुबुद्धिरनङ्गदेवः स्वचेत
सिव्यचिन्तयत्-यास्त्रीजगच्चक्षुः सूर्यमप्यस्तोदितं न जानाति, सर्वाणि राज्यकार्याणि सन्त्यज्यस्वयं नृपतिश्चसर्वदा यस्याःसानिध्य Aन विमुश्चति तहिंसाऽङ्गनाकीदृशीभविष्यति ? यस्यादर्शनमपि दुर्लभं तदातत्स्पर्शनं तु कुतो लभ्यते । एवं कामग्रहगृहीतचित्तो
For Private And Personlige Only