________________
नभस्तलस्पर्शिना महोन्नतेन प्राकारेण परिवेष्टितं सजलपरिखयाविभाजितं चितितिलकं विशालशालं विशालपुरं नाम नगरं समस्ति । तत्र सकलकलाकलापेषु निपुणमतिर्निजभुजौजसा निर्जिताखिलवैरिवर्गोंदिगन्तविश्रान्तकीर्तिनिकरः सुभटशिरोमणिर्जयवन्तसेननामा भूपतिःप्रजाःपालयत्राज्यं करोति । सचैकदा प्रभूतैश्वर्यविराजितपरिवारवर्गपरिकरितः सदसि | सिंहासनोपविष्टः सभ्यानरान्प्रत्यवदत्-हे सभ्याः ? आस्मिन्भुवने काऽपिकलैतादृशीविद्यते ? यामहनजानामि ? तदसंभाव्यमपि नृपवचनं निशम्य तत्रस्थिताः सर्वजनास्तंप्रोचुः-राजन् ? भवान्सर्वकलानां पारदृश्वाऽस्तीतिकोनवेत्ति । तदानीं सत्यवक्ता धृतधैर्यः कश्चिन्नरोऽभाषिष्ट-नरेश्वर ? भवान्सर्वासुकलासु पारगामीदृश्यते, परन्त्वेकं स्त्रीचरित्रं त्वं नजानासि । यतो ये देवासुरान् निजमन्त्रविद्याबलेन वशीकुर्वन्ति, ते सिद्धमन्त्राअपिनराः स्त्रीचरित्रेभ्योदूरंपलायन्ते । वारिणिव्रजता प्राणिनांचरणविन्यासान्विज्ञातु केऽपि समर्थाभवन्ति, व्योम्निडयमानानांगरुत्मतां चरणश्रेणीर्गणायितुंशक्तिमन्तो बहवोविद्यन्ते। तथाऽपि स्त्रीहृदयचेष्टितं विज्ञातुंलोकत्रयेऽपिकोऽपिक्षमोनाऽस्ति । उक्तश्चान्यत्र-अर्बप्लुतं माधवर्जितश्च स्त्रीणांचरित्रं पुरुषस्य भाग्यम् । अवर्षणं चाप्यतिवर्षणश्च, देवानजानन्तिकुतोमनुष्याः ॥ १॥ राष्ट्रस्यचित्र्तकृपणस्यवित्तं, मनोरथंदुर्जनमानुषाणाम् । खियश्चरित्रं पुरुषस्यभाग्य, देवोनजानातिकुतोमनुष्यः॥ २॥ ईदृग्विधानितस्य सत्यवादिनोवांसि समाकर्यभूपतिः शिरः कम्पयन्विचारमनोबभूव । अनेन पुरुषेण यदुक्तं तत्सत्यमेव विज्ञायते । यतः स्त्रीणां गूढान्येवमनांसिविद्यन्ते । तस्मान्ममान्तःपुरवर्तिन्यः सर्वाःप्रमदा:पतिव्रतपरायणा भवन्तीति न संभाव्यते । इत्थं विशङ्कमानःस पुनःस्वचेतसिव्यचिन्तयत्-यनिर्मलशीलधारिण्या भार्ययासाकमेवसद्भिः संयोगोविधातव्योनाऽन्यया, तर्हिसाम्प्रतं मयाकिं कर्त्तव्यमितिविकम्पयन्सनिजमनसीति
For Prve And Personale Only