________________
Acharyasamagranema
श्री
|
तृतीया प्रस्तावः।
अजितसेन शीलवतीचरितम् ।
॥६
॥
मन्त्रिवर्गपरिकरितेन भूपतिनासाकं प्राचलत् । यथोष्णरश्मि गगनाङ्गणस्थ, बुधोऽनुयाति प्रखरप्रभावम् । प्रधानवर्गोऽपि तथा स्वकीय-भूमीपतेः सन्निधितां भजन्ति ॥ १॥ अथवर्मनिव्रजन्नृपतिर्निर्जलकुसुमाभिधाने प्रदेशे समागत्याजितसेन पार्श्वेतद्भार्यया प्रदत्तंदीव्यं कुसुममपश्यत् । तच्च सरोजं सद्यो जलादुद्धृतमिव प्रफुल्लतरमासीत् । तद्विलोक्यनृपतिः स्वचेतसि चिन्तयितुं लग्नः, अस्मिन्निजलप्रदेशे कमलस्यनामाऽपि दुर्लभमस्ति, कस्मादिदं कमलमिह समागतम् , तच्छुद्धिश्वावश्यतयामया विधातव्येति विचारयन्नजितसेनं निजान्तिकेसमाहूय तत्कमलवृन्तान्तं पृच्छतिस्म-सोऽपि भूपतये यथास्थितं तद्वृत्तान्तं | कथयतिस्म । ततोऽजितसेनोक्तं वचनं निशम्य भूपतिस्तद्वचनमसत्यं मन्यमानोऽभव्य इवाश्रद्दधानः सन्नवोचत्रे प्रधान ! ईदृशमसंभाव्यमिदंत्वदीयं वचनं कथं सत्यं मन्ये ? इत्थमजितसेनमभिधाय कपटजालैकरचनायां लब्ध नैपुण्यां स्वकीयां प्रधानचतुष्टयीं रहसि समाकार्य तत्कमलवृत्तान्तं तेन न्यवेदि, किं तत्सत्यं ज्ञातव्यं वा वितथम् ? प्रधानाः प्रोचुः-नृपते ? तद्भार्यया शीलवत्या जितसेनो वञ्चित एवाऽस्ति । यतोऽस्मिल्लोके विशुद्धशीलपालनी तादृशी भार्याकुतः संभाव्यते ? याहि जन्मतः प्रारभ्य मुग्धाविशुद्धस्नेहधारिणी मेधाविनी पातालसुन्दरी पतिव्रतानां धुरिकीर्तनीया समभूत्, साऽपि विशिष्टप्रज्ञं प्रेमवन्तं जयवन्तसेननामानं भूपति प्रतारयतिस्म, तीन्यासां प्रमदानां वचसिकुतो विश्वासो भवेत् ? इत्थं निजप्रधानगदितं वचनं समाकर्ण्य तद्वा श्रवणे समुत्सुको नृपतिस्तानपृच्छत्-केयंपातालमुन्दरी ? तया च स्वपतिः कथं कश्चितः ? तदृत्तान्तं ब्रूथ । एवं नृपतेः प्रश्नं श्रुत्वा चतुर्णामेको ज्यायान्मन्त्री बभाषे-नरनाथ ? मदुक्तं वृत्तान्तं सावधानतया शृणुष्व । सर्वसम्पदामेकं विशाल क्षेत्रमिव न्यायरत्नानामद्वितीयं निवासस्थानं दुरिवैरिवाराणादुर्भेदनीयेन |
|६८॥
For
And Personale Only