________________
Acharya Shri
K
ragarson Gyarmande
कनकसिंहस्तां कन्यामुवाच-हे बाले ! दुहितकन्यां त्वामहं जानामि, मद्विषयेत्वया काऽप्यधृतिर्मनसि नविधेया । मृते भ्रातरि दुःसहपीडया ममहृदयं द्विधा विदीयते । तजन्यशोकशल्येन जर्जरीभूतं मदीयमिदं कलेवरं चिरंनस्थास्यति । तस्मादिदंराज्या| दिकं सर्व तुभ्यं प्रदाय गुणसुन्दरीभार्यासमेतोऽहं दुःखनिर्जरायैतीर्थाटनं कर्तुव्रजामि । इत्थं नृपतेर्वचनं निशम्य राजसुता जगाद-भूमिपाल ? धैर्य समाधत्स्व, धर्मसहायेन सर्व शुभं भविष्यति, सत्त्वरं स्यन्दनं सजीकृत्य मया साकंभवान्समागच्छतु, येन जलधेस्तटं गत्वामद्विद्याबलेनाहं तव भ्रातरं जीवन्तं दर्शयिष्यामि, चिरवियोगिनो वयं सर्वे परस्परमीलनेन सुखिनो भविष्यामः । इति राजसुतावचनं समाकर्य लब्धसर्वस्व इब कश्चनसिंहः सहसा रथं समानाय्यरत्नवत्था सह स्वयं तत्रोप| विश्य जलधेस्तटं जगाम । ततो रत्नवती रथादुत्तीर्य पयोधेर्जानुदघ्नेवारिणि गत्वा निजविद्याबलेन तंमीनमाह्वयतिस्म । तदानीं स मत्स्योऽपि तीरमागत्य चिरकालसंरक्षिता मञ्जूषा रत्नवत्यै दत्त्वा स्वस्थानं प्रययौ। ततोरत्नवत्या कनकसिंहो भणित:राजन् ! इमामञ्जूषामुद्घाव्य कनकसिंहेनाऽपि सा समुद्घाटिता, तस्यांसनिविष्टस्य निजबन्धोः सुगुणसिंहस्य दर्शनादमन्दानन्दं स वभार । भूयसा प्रेम्णा मुहुस्तं समालिलिङ्ग, मिथः सुखदुःखवार्ता प्रकुर्वन्तौ भ्रातरौ रथोपविष्टौ निजप्रासादमीयतुः । ततः कनकसिंहस्तेजपालमहेभ्यं तृणहारकान्स्वसेवकांश्च निजदेशानिष्कासयामास । सुगुणसिंहस्य सेवाविधायिनं यक्षपूजकं च प्रभूतद्रव्यप्रदानेन प्रीणयतिस । ततस्तावुभौ भ्रातरौ मिथः प्रेमाविर्भावेन धृतप्रमोदौ दिनानि गमयामासतुः। इति भणित्वा शीलवती निजपतिमवोचत्-हे स्वामिन् ? अस्य वृत्तान्तस्य यः सारोऽवश्यग्राह्योऽस्ति स भवता गृहीत एव | भविष्यतीति मन्ये, तस्मात्सांप्रतं सुखेन यथाभिलाषं गमनं त्वयाविधीयताम् । इत्थं शीलवत्याऽनुमतोऽजितसेनो निजान्य
For Private And Personlige Only