________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन
शीलवती
चरितम् ।
॥ ६७ ॥
3+→→→→***********←→←→**-*-**-03
www.batirth.org
रूपांत कन्याश्च सार्द्धं गृहीत्वा निजनरेशितुः प्राभृतीकरणाय राजमन्दिरं गन्तुं निरगात् । तदानीं निजभृत्यानिति समादिशत् - प्रवहणसंस्थितं सर्व धनादिकं स्वकोष्ठागारे यूयं प्रचिपत । सदसिस्थितो नृपतिश्विरं समायान्तं तेजपालं समवलोक्य परमसन्तोषमवाप, श्रेष्ठ्यपि विनयपूर्वकं विहितप्रणतिर्निजोचितस्थानमलश्चकार । भूपतिना कुशलोदन्तं पृष्टो महेभ्योऽवदत् नरनाथ ? भवतः कूर्पाकटाचैः सर्वथा मे निरामयमस्ति, पुनरपि स जगाद भूपते १ युष्मन्महिष्याः कृते हृदयङ्गमानि जात्यरत्नानि मया समानीतानि इत्यभिधाय कियन्ति रत्नानि भूपतेरप्रेढौकितानि इयश्चैका राजकन्यासमानीता रूपगुणकलाभिर्विराजिता भवद्योग्यावर्त्तते । इत्थंव्यवहारिणोवचनं श्रुत्वा भूपतिस्तां कन्यामपश्यत् । तदानीं सा कन्यापिलञ्ज नाटयन्ती मनाक् कटाक्षविभ्रमेण नृपतिमसूचयत् । ततो भूपतिरपि ज्ञाततदीयसङ्केतः सत्वरं समुत्थाय रहसिजगाम । सा कन्याऽपि भूपतेरनुपदं गत्वा निजभर्चुः सकलवृत्तान्त सूचकमेकं पूर्वलिखितपत्रं तदग्रे मुक्त्वा कथयतिस्म - महाराज १ इदं पत्रं रहसि स्थित्वा भवान्वाचयत्वितिममाम्यर्थना सफलीक्रियताम् । अथ भूपतिस्तत्पत्रं समादायापवर्के गत्वा स्वयं वाचयतिस्म । तत्र स्वभ्रातुः सुगुणसिंहस्याभिधानं ज्ञात्वा तथाऽन्यदपि तत्सम्बन्धि वृत्तान्तं तेजपाल श्रेष्ठिना विहितोपद्रवांश्च विज्ञाय सा - श्रुलोचनो भूपतिः स्वोपकारविधायिनं स्वकीयं लघुबन्धुं मिलितुं भृशमुत्सुकोऽभवत् । परं तत्पत्रवाचनेनैव तेन विज्ञातम्, मनश्रेष्ठा भ्राता जलधौ पातित इति । श्रथैतत्पत्रवाचनेन सञ्जातप्रचण्डकोपः स नरपतिस्तेजपालस्य मुखमप्यनिरीक्ष्यतद्गृहाद्धकोष्ठागारादीनि सर्वाणि वस्तून्यात्मसात्कृत्वा तश्च कारागृहवर्त्तिनं चकार । ततो मृषा राक्षसीवधनिवेदकान् तृणहारिणः स्वभृत्यानपि तथाऽशिचयत् येन समस्ते नगरे जनमुखेषु महान्कोलाहलोऽजनिष्ट । भ्रातृदुःखेन दुःखितः
For Private And Personal Use Only
***** €*
Acharya Shri Kassagarsuri Gyanmandir
तृतीयः
प्रस्तावः ।
॥ ६७ ॥