________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
मज्ञास्यश्चेन्मदीयं जीवितमेतस्थाधीनं नाकरिष्यम् । परं दैवगतिः केनाऽपिनोलञ्जयते । इदानीं मयिकृपांविधाय मदीयामेका प्रार्थनां स्वीकुरु । यदाऽयंपोतः पयोनिधेस्तटं प्रयाति तदाऽयं कारावासस्थितो नरस्त्वया सागरान्तर्निक्षेप्यः, यतश्चतुर्मिर्वासरैरधिकंममसौभाग्यं वर्द्धते । एतावन्मदुक्तं वचनं भवतापरिपान्यताम् । एतेन तब महान्तमुपकारमन्स्ये । श्रेष्ठ्यपि तस्याः कन्यकाया वचनं प्रमाणीकृत्य तथैवाऽकरोत् । अय रत्नवती तेजपालमनोगतं सर्व पापं जानातिस्म । अनेन कुमारेण यदुक्तं तत्सत्यमेवप्रतीयते, अस्यमहेभ्यस्यहृदयं मलीमसमेव विद्यते । आस्तां खल्वेतत्, परमधुनाऽस्य कुमारस्य संरक्षणार्थमया | कोऽप्युपायोविधेयः, इति विचार्य सा रत्नवती स्वकीयविद्याप्रभावेणैका पेटोविनिर्माय तन्मध्ये निजपतिं सुगुणसिंह स्थापयित्वा तांमुद्रिताश्चकार । ततः स्वविद्याबलेनैक महामत्स्यमाजुहाव । मन्त्राकृष्टं तत्र समायातं तं मीनं सा कथयामास-महामीन ? इमा मञ्जूषामहं जलधौ क्षिपामि सात्वया निजजीवितमिव स्वजठरे रक्षणीया, यदा चाऽहमेतां मार्गयामि तदा त्वयाऽसावक्षतैव मह्यं पश्चादर्पणीया । इत्थं तमीनं प्रबोध्य रत्नवती पतिगर्भा पेटा प्रच्छन्नतया वारिधी निचिक्षेप । मीनोऽपि निपतन्ती तांमञ्जूषा स्वमुखेनिधाय गुप्तसञ्चारो निजमार्ग प्रययौ । अथ निजचरितं गोपयन्ती रत्नवती श्रेष्ठिनं जगाद-हे महेभ्य ? तव हितमिच्छन्त्यामया कारागृहस्थितो यः पुरुषः स जलनिधौ प्रचिप्तः । इति रत्नवत्या भणितं वचनं सत्यं मन्यमान: श्रेष्ठी भूरिप्रमोदं विभ्रत्स्वचेतसिसिद्धं स्वकार्यमित्यमन्यत । अहो? मदीया भाग्यरेखा बलीयसी । यतो मत्कृत्यमनयैवनिष्पादितमिति विचिन्तयतस्तस्य तत्प्रवहणं जलस्तीरमियाय । ततः प्रमुदितमनास्तेजपालस्तत्र स्थिरीकृतात्तस्मात्प्रवहणात्सद्यः समुत्तीर्य महानन्दोदधौ निमग्नः सारतराणि वस्त्राभरणानि स्वयं परिधाय कतिचिदनाणि रत्नानि दीव्य
For Private And Personlige Only