________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
तृतीया प्रस्तावः।
श्री अजितसेन | शीलवतीचरितम् । ॥६६॥
मास । पुनस्तेन सा भणिता-सुदति ? अस्मिन्प्रवहणे सुदैवयोगादावयोः सम्बन्धोजातः, परन्त्वना निर्विघ्नतया सागरोल्लङ्घनदुर्लभमन्ये । यतोऽस्य महेभ्यस्य चित्तवृत्तिर्मलीना विद्यते, अनेनदुष्टवणिजा मदन्तिकात्रीणि रत्नानि बलात्कारेण गृहीस्वाऽहं कारागृहे निक्षिप्तोऽस्मि । अस्याधमस्य हस्तपाशादधुनापि मोचनावसरोमया न प्राप्यते । इत्थं पतिवचनं शृएवन्ती सा प्रोवाच-स्वामिन् ? भवत्प्रसादेन सर्वविद्यासु कुशलास्मि, भवतःसकलंदुःखं निवारयिष्यामि, यावन्मम प्राणा विद्यन्ते तावत्तवरोममात्रमपिवक्रीक कक्षम: ? किश्चिदपि भवता मनसिन्यून नैवचिन्तनीयम्, इदानीं भवता निर्भयतया स्थातव्यम् । इति निजमाया गिरं समाकर्ण्यभृशं मोदमानः सुगुणसिंहो लब्धसर्वस्व इव वेदनां विसस्मार । इतस्तेजपालः स्वमनसिविविधान्विकल्पान्कुञ्जलग्ना, महो ? दैवगतिर्विचित्रा विद्यते, क्षणमात्रेण रकोऽपि नृपायते, नृपतिश्चदरिद्रायते, दैवमेवात्रकारणमस्ति । अयं सुगुणसिंहो मयाबन्दीकृतोऽस्ति, तथापि चणादनेन राजकन्या समासादिता, भूरिरत्नसंपत्तिश्च स्वाधीनीकृताऽस्ति, परंपिपीलिकामुखे कलिङ्गं कियत्कालं तिष्ठति ? इदानीमेवाहं वर्मनितंजलधौपातयित्वा तदीयांस्त्रीरत्नादिका सकलां सम्पत्ति स्वसाकरिष्यामि । ततः कियन्ति रत्नानीमांप्रमदाश्च निजनगराधिपतये प्राभृतीकरिष्यामि, अवशिष्टश्च सर्वे धनं मदन्तिके स्थास्यति । इत्थं तेजपाल श्रेष्ठी स्वमनसि विचार्य राजपुत्री रत्नवतीं प्रोवाच-हे सुन्दराङ्गि ? यस्त्वया परिणीतः सनरस्तुमया कारागृहे निक्षिप्तोऽस्ति, तश्चश्वस्तनदिने वारिधौ पातयिष्यामि, इतश्चतुर्मिर्दिवसैरिदं प्रवहवं तीरं गमिष्यति । इति बज्रायमाणं महेभ्यवचनं निशम्य सा राजकन्या तस्मै भृशं चुकोप । तथापि तस्य वशवर्चित्वादुपायशून्या सा शान्ताकारा निजचातुर्येण कामपि युक्ति विशोध्य श्रेष्ठिनं प्रत्युवाच-महेम्याग्रणीः ? अयंपुरुषो भवता बन्दीकृतोऽस्तीति पूर्वमह
॥६६॥
For Private And Personlige Only