________________
Achana
agarson Gyarmande
सुगुणसिंह विज्ञाय श्रेष्ठी निजचेतसीतिदध्यौ-सहस्ररत्नानां दीव्यरूपायाः कन्यायाश्चमे लाभोऽत्र प्रयासेनविना भविष्यति । इत्थं विकल्पजालं कुर्वन्स श्रेष्ठी सुगुणसिंह निजान्तिके समाहृय नृपोक्तं कन्यावृत्तान्तं निवेद्य तेन सार्द्ध राजसदसि जगाम । सिंहासनोपविष्टो भूपतिस्तं सुगुणसिंह रूपलावण्यनिधि विलोक्य भृशं मुमुदे । ततः स्वतनुजा रत्नवती तेनतत्र समाहूयत, सापिवरार्थिनीधृताऽमूल्यनेपथ्या नृपास्थानीमासाद्य सपरिवारा स्वप्रतिज्ञापूरकस्य नरस्य परीक्षार्थ परितः सदसिसवैलवर्तिकान्प्रदीपानस्थापयत्, ततस्तयाऽभाणि-क्षत्रियमानिनः ? सदस्याः ? पुरा स्वयंवरमण्डपे देशान्तरेभ्यः समागता राजन्या: कन्याया अभिलषितां प्रतिज्ञा पूरयित्वा कन्यारत्नमलभन्त, तथैवाधुनापि प्रवृत्तिर्जागर्ति । अतो मदीयां प्रतिज्ञा निवेदयामि, तां सावधाना यूयं शृणुत, अस्यां राजसभायां तैलपूरिताः प्रदीपाः स्थापिताः सन्ति, ताँच यो दीपकरागेण प्रकाशयिष्यति तस्य नरस्यग्रीवायामिमां वरमाला स्थापयिष्यामि । ईदृशं राजकन्यायाः सुधासोदरं वचनं श्रोत्रपुटेन सादरं निपीय सुगुणसिंहः स्वकलाकौशल्येन दीपकरागं प्रारभत, ततः सहसा सर्वतः स्थिताः प्रदीपाः सुविहितरागमाहात्म्येन स्वयमेव प्रकाशन्तेस । तदृष्ट्वा सर्वेसदस्या नृपामात्यादयश्च चमत्कृतास्तस्य कलाकौशलं प्रशंसन्तः प्रमोदन्तेस्म । ततस्ते सर्वेसुगुणसिंह सुमनोहरैः सुमनोभिवापयन्तिस्म । रत्नवत्यपिप्रभूतप्रमोदवारिराशौ निमग्ना स्वहस्तेन वरमाला तस्यकण्ठपीठे निचिक्षेप । ततो भूपतिः समहोत्सर्व तयोरुभयोः पाणिग्रहं कारयामास । वसनाभरणादिकां विपला सम्पदं तस्मै वितीर्य स्वपुत्री रत्नवतीं स तस्याः श्वशुरालयं प्रेषयतिस्म । सुगुणसिंहोऽपि समार्यो नृपदचं द्रव्यादिकं समादाय निजप्रवहणंप्रययौ । अथ तेजपालः पूर्णमनोरथः शीघ्रं स्वपोतं सजीकृत्य त्वरितवेगेन चालयतिस्म । जलवम॑निगच्छन्सुगुणसिंहो निजोदन्तंमूलतः प्रारम्य रत्नवतीं कथया
For Private And Personlige Only