________________
www.kobahirihora
तृतीया प्रस्तावः ।
अजितसेन शीलवतीचरितम् । ॥६५॥
तदा धृतमौना इव निःशब्दास्ते पोतनिषमा जना गूढाकारेङ्गितास्तस्थुः, गायकस्याभिधानं न कथयामासुः । यतो वैदेशिकाः परकीयराजनीति न विजानन्ति । तस्मात्तैरेव विज्ञातमियं नृपतिका किमर्थमत्र समागता! गायकस्याभिधानं किमर्थ पृच्छति ? अस्मिन्द्वीपे नृपतेः कीदृग्विधं शासनं प्रवर्त्तते ? किंवाऽस्मित्राज्ये केनापि पुरुषेण मायनं न विधेयमिति भूपतिना निषेधो विहितोऽस्ति ? यदि चैतस्याभिधानं कथयामस्तक्षेनं बन्दीकृत्य नृपसन्निधावसौ नयति तदा श्रेष्ठिना वयमुपालन्यामहे । इति विज्ञाय कोऽपि प्रत्युत्तरं नादात् । ततः खिनमानसा दासी पश्चादागत्य राजकन्यामवादी-स्वामिनि ! भवत्या आज्ञानुसारेण तत्र गतया मया सर्वत्र पर्यवेक्षणं विहितं तथापि गायकस्य शुद्धि लब्धा । इति दासीवचनमाकर्ण्य व्यग्रमानसा सा कन्यानिजजनकमवादीन-हे तात! ममाऽभीष्टदायको भर्त्तात्र समीपस्थिते प्रवहणे संस्थितोऽस्ति, तं गवेषयित्वाऽत्र समानय,
तेन सह ममोद्वाहं सम्पादय । यतो ममैताशी प्रतिज्ञाविद्यते, यः कोपिनरो दीपकरागण गानं कुर्वन्प्रदीपान्प्रकाशयेत, | स ममम भवेत् । तथैवह्यस्तनेवासरे सायंकाले कश्चित्पुरुषोगायतिस्म, तेनगायनेन प्रदीपाः स्वयमेव प्रकाशन्तेस्मेति
मया प्रत्यक्षतया व्यलोकि, तस्मादस्मिन्सन्निधिस्थे प्रवहणे यो दीपकरागगायकः स एव मम भाऽस्ति । इत्थं निजकन्याया वचनं निशम्य महीपतिस्तत्पोताधिपति तेजपालश्रेष्ठिनं निजान्तिके समाहूय कन्यकागदितं सर्व वृत्तान्तमचीकथत् । पुनस्तेन श्रेष्ठी भणितः-महेभ्य ? तद्गानकर्तारंनरमत्रसत्वरं समानय । यतस्तस्मैनराय मदीयं कन्यारत्नं सहस्ररत्नोल्लसितोहारश्च | प्रदातव्योऽस्ति । इति नृपतिवचनं निशम्य तेजपालो भृशंप्रमुदितोऽभूत् । ततः सश्रेष्ठीस्वप्रवहणमासाद्य सर्वोञ्जनानपृच्छतकोचपोतेदीपकरागणागायत! सर्वैः कथितं योऽसौकारागृहे स्थितोऽस्ति तेनपुंसा गायनं विहितमिति जनमुखाच्छ्रत्वा तद्गायक
For Private And Personale Only