________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
मारोहति तावत्तत्प्रवहणवाहकास्तं प्रोचुः-श्रेष्ठिन् ! अस्मात्स्थानानातिदूरे जलधिप्रदेशे कश्चिद्यक्षो निवसति, स च मनुष्यभक्षणं करोति, अतस्तस्मै यक्षाय नरस्यवलिं दत्त्वैवाने गमिष्यते । तस्मात्तदर्थ त्वयैको मनुष्यो गृहीतव्यः । इति नाविकोक्तं वचनं श्रुत्वा स्वकारागृहेस्थितं सुगुणसिंह सहादाय प्रवहणं समारुह्य तेजपालो रत्नद्वीपं गन्तुं प्राचलत् । अथ दैवयोगेन यक्षाश्रित मार्ग विहायान्यस्मिन्वमनि तत्प्रवहणं गच्छत्कतिभिर्दिवस रत्नद्वीपमियाय । तत्र प्रवहणं स्थिरीकृत्य निकटवर्तिनि रत्नपुराभिधे पत्तने समागत्य तेजपालो निजक्रयाणकानि विक्रीय धनसञ्चयमकरोत् । ततस्तस्मिनगरे रत्नजिघृक्षुः स निजोपयोगिरत्नगेवषणां कर्तुं लग्नः । इतस्तन्नगराधिपतेरत्नसिंहभूपस्य प्रासादस्तद्गोपुरान्तिकस्थोऽभूत् । तस्मिन्प्रासादे तत्पुत्री रत्नवती निवसतिस्म, प्राप्तयौवना सा वरार्थिनीति प्रतिज्ञामकाति-यः कोऽपि नरो दीपकरागण गानं विधाय दीपं प्रकाशयेत्तेन साकमहं परिणयेयम् । इति प्रतिज्ञापूरकस्य पुरुषस्यायोगादद्याऽपि साकन्याऽनूढा तिष्ठति । अथान्यदाऽपराह्नसमये सा कुमारिका निजप्रासादस्य गवाक्षे निषलाऽभूत् , तस्मिन्समये सुगुणसिंहो निजप्रवहणस्थितो नानाविधाविकल्पान्प्रकुर्वन्परमात्मनो गुणैः समाकृष्टः सायंकालोचितेन दीपकरागेण प्रभुंस्तोतुमुपचक्रमे । तेन गायनेन परितः प्रवहणप्रदीपाः स्वयमेव प्रकाशन्तेस्म, तत्समीपस्थेषु गृहेष्वपि प्रदीपास्तथैव प्रज्वलिताः । एवं दीपप्रकाशं निरीक्ष्य गवाक्षस्थिता सा कुमारिका प्रमोदमेदुरा जज्ञे । अहो ! मदीया प्रतिज्ञाऽद्य संपूर्णाजनि, एषु प्रवहणेषु काऽपि मत्प्रतिज्ञापूरको नरो विद्यते, परमेतस्य पुंसः शुद्धिः कथं लभ्यते । एवं वितर्कयन्ती सा स्वप्रासादशिखरमारुह्ययस्यां दिशि शब्दश्रेणीमश्रौषीत्तस्यां काष्ठायां तच्छुद्धिहेतवे निजदासी प्रेषीत् । दास्यपि तत्र गत्वा प्रवहणस्थितान्नरानपृच्छत् ,-भो यात्रिकाः! दीपकरागप्रकाशको नरोऽत्र विद्यतेनवा ?
For Private And Personlige Only