________________
| भूषाभिर्मण्डितायां हस्तिन्यामुपविश्यकियन्तीभिर्दासीमिः परिवारिता देशान्तरेभ्यः समागतानां राजन्यानां निरीक्षणकृते तेषां मध्येमार्ग प्राचलत् । तस्मिन्नवसरे सर्वेषां राजकुमाराणां दृष्टयस्तस्यां राजकन्यायां युगपनिपेतुः । सुरभिकुसुमअथितां प्रवरां वरमाला शुण्डादण्डेन गृहीत्वा करिणी वरकण्ठमलंका परितोवभ्राम । तस्मिन्नवसरेऽनध्यनेपथ्यालङ्कारैर्विराजमानान्वैदेशिकानाजन्यान्परित्यज्य यत्र विषप्सचेतस्को मलीनवसनो विवर्णसुखद्युतिः कनकसिंहास्थितस्तत्र सा करिणी | स्वकीयकरण जनान्दूरीकृत्य तस्यकुमारस्य समीपं गत्वा गतिभङ्गमतितान । तस्मिन्क्षणे गुणसुन्दरी सौवर्णरजतपुष्पैः कनकसिंह वर्धापयामास, तदानी सा करिण्यपि स्खकरगृहीतां वरमाला तस्य कण्ठमारोपयतिस्म । ईदृशं मङ्गलसमयं वीक्ष्य प्रधानवर्गाः समस्ता नागरिकाश्च जयजयारावैर्नभस्तलमुद्घोषयामासुः, तन्मूनि च कुसुमवृष्टिं व्यधुः । ततस्तस्य कुमारस्य सन्निधौ समागत्य राजपुरुषा महान्तं सत्कारं विधाय तं गजेन्द्रारूढं कृत्वा महताडम्बरेण राजभवनमानिन्युः । शुभेमुहूर्ते च तं कनकसिंहं सर्वेमन्त्रिणः सम्मिन्य राज्यासने निवेशयामासुः, ततो गुणसुन्दरी समहोत्सवं परिणीय कनकसिंहो राज्यकार्यनिमग्नो गुणसुन्दर्या समं क्रीडमानो महोपकारिणं स्वकीय लघुबन्धुं सर्वथा व्यस्मात् । इत्थंसा शीलवती निजभ रमजितसेनं कथयति-प्राणेश्वर ? अनेन दृष्टान्तेन भवानेव स्वयं विचारयतु, मनुष्यो यदा सुखसम्पत्तिभिः प्रमचो भवति तदा दुःखस्य समयं सर्वथा नैवस्मरति, तथैवान्येषां कृतोपकारामजानाति । यथावहिना भृशं तापितेऽयोगोलके निक्षिप्तो वारिबिन्दुर्नाममात्रमपि न धारयति, तथैव कृतघ्नस्य हृदयस्थलात्कृतोपकाराः क्षणमात्रेण विनश्यन्ति । तथाविधंशीलवतीवचनं निशम्याजितसेनोऽवोचत्-कान्ते ? यद्यपि त्वदीयं वचनं सत्यमस्ति तथापि नैतादृशी शङ्का कदापि त्वया विधातव्या । यतोऽहमा
For Private And Persone
Only