________________
Shri Mahavir Jain Aradhana Kendra
श्री भजितसेन
शीलवतीचरितम् ।
॥ ६१ ॥
K+X36+++++******++++***++++
www.khatirth.org
भूतमत एव मृतोऽयमितिनिश्चित्यहृदयभेदनं रोदनमारभ्यत । अस्मिभिर्जने स्थानेऽसकृदन्तंतमाश्वास्य को निवारयेत् १ पश्चात्स्वयमेव रोदनं परित्यज्य व्यचिन्तयत्-इदानीं विषादकरणेन किं फलम् ? अस्मिन्समये परमोपास्यं त्रिलोकनाथं परमेश्वरमन्तरेण सहायको मेऽङ्गीभूतो नापरो विद्यते, यतः - यत्तेजसेदं प्रविभातिविश्वं यदर्चनेनैवतरन्ति लोकाः । यद्भावनातः सुखिनो भवन्ति स एव सेव्यो जगदेकपूज्यः ॥ १ ॥ स्वकर्मणा दुःखमियर्तिजीव- स्तेनैव सौख्यानि समुद्भवन्ति । अतस्तदेकं विशुमन्यमानो - निजेष्टदेवाभिमुखो भवेद्द्राक् ॥ २ ॥ इति ध्यात्वा कनकसिंहोज्ञानेन घृतधैर्यस्तन्मृतकं संस्कत्तुं काष्ठादिवस्तुसारजिघृक्षया समीपस्थं तत्पत्तनमभ्यगात् । तदानीं तस्मिन्नगरे तन्नगराधिपतेः स्वयंवरायाः कन्यायाः पाणिग्रहणमहोत्सवः समारब्धः, तद्दिदृक्षया देशान्तरेभ्यो ऽनेके जनसमूहा मिलिताः सन्ति । तस्मा चत्पत्चनवसिनो व्यवहारिणो देयाऽऽदेयविवेकविकलाः समजायन्त । अतः कनकसिंहेनाऽपि स्वोचितं किञ्चिद्वस्तुनालम्भि । ततः स राजसूनुर्मनसिचिन्तयतिस्म-भूरिप्रयासेन पितुराज्ञामादाय राजकन्यामुद्रोढुं राज्यश्च गृहीतुं सबन्धुरत्र समायातोऽस्मि, तत्राऽपि कनिष्ठबन्धुरम्रियत । तस्मात्सा वाधातु विनष्टैव यतोऽस्मिन्विपत्तिसमये राजकन्या कुतः प्राप्यते ! यां प्रतिज्ञां विधायाहमत्र समागतस्तत्सकलं कार्य हृद्येवावस्थितम् । अस्तित्वदानीं यत्स्यात्तद्विलोकयामि । इत्थं विचार्य यत्र प्रभूता जनाः संभूय संस्थितास्तत्र गत्वा कनकसिंहस्तस्यौ । प्रथमत्वज्ञात परिचयश्वाद्दरदेश प्रयाणेन शीतातपपीडया च शरीरकान्त्यादेर्विपर्ययत्वात्स्व भ्रातुर्मरणात्तजन्यशोकसंचयेनाभिभूताचार्य राजकुमार इति केनाऽपि जनेन नाज्ञायि । श्रत एवोपवेशनार्थ योग्यं स्थानमपितेन कुतो लभ्यते १ अथास्मिप्रस्तावे स्वयंवरणमुहूर्त्तस्य समयोऽजनि तदानीं भूपकन्यागुणसुन्दर्यपि स्फारतर शृङ्गारैः सुशोभितावयवा महाकुथाद्यनेक
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandr
03++++++**++****+++
तृतीयः प्रस्तावः ।
॥ ६१ ॥