________________
Acharya Shri
K
ragarson Gyarmande
सममच्यत, जलश्चापीयत । ततः स स्वस्थीभूय सुगुखसिंहमवोचत्-बन्धो ? अधुनाऽहंसाहरिको भवामि, त्वचसुखेन निद्रा भजस्व, इति भ्रातृवचनं प्रमाणीकृत्याञ्जसा सुगुणसिंहो वसनशय्यायामस्वाप्सीत् । कञ्चनसिंहोऽपि धृतशस्त्रः प्राहरिककर्मणि सजीभूतोऽस्यात् । अथैतसिन्समये तत्रैव प्रदेशे कश्चिदाश्चर्यजनको योगोऽजनिष्ट, तद्यथा-तस्मिन्नेवारण्ये तस्थिवानेको मणिधरोमहानागः प्रत्यहं तस्वसरोवरस्यतटप्रदेशे स्वभञ्यंगवेषयितुं समागच्छति, सुगुणसिंहेन रत्नलोभेन यो द१रोनिहतस्तस्कृतिस्थितरत्नानांतेजसा तत्सर्व वनं प्रकाशितशासीत् । तेन योगेन स नागः स्वकार्य साधयन्वैरं परिभ्रमतिस्म । तथैव तस्मिनपिसमये समागतोनागः सर्वत्रसरःप्रदेशे तमोव्याप्र्तिविलोक्य तस्यभेकस्य शब्दांश्वानाकर्ण्य स्वचेतसि चिन्तयतिस्म, अहो ! किमयदर्दुरध्वनि श्रूयते ? केनाऽपिदुष्टेन स व्यापादितःकिम् । इति विचिन्तयन्स नागोयावत्परितो विलोकयति तावचत्र निपतितान्द१रखण्डान्ददर्श । तदर्शनेन तत्कालोत्पन्नप्रचण्डक्रोधेनाध्मातहृदयासभोगी व्यचिन्तयत्-येनपापाधमेन ममाऽयंप्रियसुहृनिहतस्तस्य दुष्टस्यप्राणानपहृत्य स्वल्पेन कालेन वैरशुद्धिकरोमि, इतिप्रतिज्ञांविधाय परितोभ्रममायो व्याकुलितचित्तः स यावद्विलोक्यति तावत्तत्र सुप्तनिद्रासुखमनुभवन्तं सुगुणसिंहदृष्ट्वा स्वचित्ते विचारयतिस्म, अस्मिन्प्रदेशेखन्विमनरविना नाऽन्योदृश्यते, तस्मान्मममित्रस्य निहन्ताऽयमेवेतिनिश्चित्य स तद्राजकुमारस्य समीपंगत्वा तस्यदक्षिण चरणाङ्गुष्ठं दृष्ट्वा स्वस्थानमयासीत् । ततोऽचिरात्सुगुणसिंहस्तस्य भोगिनः प्रचण्डविषविसर्पणेन मृतकवदचेष्टितोऽजनि । अथविभावों विभातायों कनकसिंहेन कनीयांसंभ्रातरमद्बोधयितुं बहवः शद्धा विहितास्तथापि सुगुणसिंहोनोदतिष्ठत् । तदा कनकसिंहस्तदन्तिके समेत्य तंकराभ्यां स्पृष्ट्वा व्यलोकयत् । परं विचेतनं तं विज्ञाय कहिंचिदपि तेनेदृशं कार्य नानु
For Private And Personal use only