________________
ShriMahavir JanArchanaKendra
श्री
तृतीयः प्रस्तावः।
अजितसेन * शीलवतीचरितम् । । ६२॥
जीवितान्तं त्वयि सदैकभावेन स्थास्यामीत्यसंशयं विद्धि । इत्थं तामभिधाय पुनः स पप्रच्छ-प्रिये ? उभयोर्धात्रोयेष्ठः कनकसिंहस्तु कन्यारत्नं गृहीत्वा राज्याधिपतिर्वभूव । द्वितीयस्य सुगुणसिंहस्थ नागदष्टस्य किं जातमितितवृत्तान्तं सवरत्वया निवेद्यताम् । यतो राजशासनत्वं जानासि, अद्य खलुराज्ञासहनामान्तरं गन्तुं मम प्रयाणावसरो विद्यते । तस्माद्बहुविलम्बो यथा नस्यात्तथा तत्कथय । तदा शीलवती सुगुणसिंहस्य वाचों कथयितुं प्रारेभे, हे स्वामिन् ! सुगुणसिंहस्तत्रैवोद्याने तरुच्छायायां निपतितोऽभवत् , तदन्तिकेतुरङ्गमौद्वौप्रतिबदौस्तः, तसिन्समये तद्भाग्यप्रेरित इव व्योम्निस्वपत्नीसमेतः कश्चिद्विद्याधरो विमानमारुह्य कुत्रचित्स्वाभीष्टप्रदेशेऽगमत् , तद्वमनिपतितं विचेतनीभूतं सुगुणसिंहं विलोक्य विद्याधरपत्नी सञ्जातकरुणा निजपतिं कथयामास-प्राणवल्लभासिनिर्जनस्थाने कोऽयं मृतकवनिश्चेष्टोनिपतितः इति विद्याधरीवचनं श्रुत्वा स विद्याधरो विमानादवतीर्य तस्य कुमारस्य समीपमागत्यतंव्यलोकयत्, तदीयचिद्वैश्वायं राजकुमार इत्यवेदि तेन । केनाऽपि विषजन्तुनादष्टोऽयं विषमूञ्छितः सञ्जात इति विज्ञाय दयाद्रमानसःस खेचरः स्वविद्याबलेन तं कुमारं सचेतनं विधाय पुनर्विमानमारुह्य निजभार्यासमेतो निजमार्गमचलत्। ततोनिद्राभङ्गादुत्थित इवस सुगुणसिंहः समुत्थायपरितश्चक्षुर्व्यापारयामास । तदातत्रनिबद्धौ निजतुरङ्गमौ स निरीक्ष्य सर्वदिक्षुपरिभ्रमन्निजभ्रातरं कनकसिंहमनवेक्ष्य भृशं विषयस्तस्य गवेषणार्थ दिवानिशं पर्याटत् । तथापि काऽपि तच्छुद्धिमलभमानः स शोकनिमग्नमानसस्तुरगद्वयं समादाय नगराभिमुखं जगाम । तस्मिन्नपिवासरे पूर्ववत्पिहितं गोपुरद्वारं विलोक्य तस्मानिवत्तमानः स तस्य गोपुरस्यान्तिकेऽवस्थितमेकं यचालयं गत्वा तत्रैव निवासमकरोत् । अश्वयुगश्च तत्र निवख्य तृणजलादिकं सर्व तदुचितं संपाद्य धृतसज्यकार्मुकोऽवतस्थे । दिनत्रयमारभ्यक्षुत्वामोऽनिद्रितश्च स कुमारो मध्यरात्रिसमये कि
॥६२॥
For Private And Personlige Only