________________
ShriMahavir Jain ArachanaKendra
तृतीया प्रस्ताव
अजितसेन शीलवतीपरितम् ।
प्राममीयतुः। यावच्चतौ गोपुरान्तिकमागतो तावत्सायंकालोऽभूत् । इतस्तत्रत्यराजशासनमेतादृशमस्ति, याटिकाद्वयावशिष्टे दिनकरे प्रतोन्या द्वारं पिहितन्तम् , यतस्तमगरसमीपवर्तिन्येकस्मिन्प्रदेशेकाऽप्येका राक्षसी जनान्मापयन्ती निवसतिस्म, तस्या भयन नागरिका निशायां गृहाइहिरपिननिर्गच्छन्ति । भसिन्प्रस्तावे राजकुमाराम्यां गोपुरद्वाररक्षका बहुधाक्रोशैर्बोधितास्तथाऽपितैौराणिनोद्घाटितानि । ततस्तो व्यर्थप्रयत्नौ चिन्तयामासतुः । इदानीमावयोः प्रवेशोनगरमध्ये न भविष्यति, अत्रस्थितयोरावयोः सकला निशा न निर्गमिष्यति, तस्मादन्यत्र समिधिस्थिते काउपिस्थाने गच्छावश्चेदरमिति विचार्य तस्मात्प्रचलन्तौ तौ निकटस्थसरस्तीरे पुष्पपादपैरमणीयतरमेकमुखानं दृष्ट्वा तत्र गत्वा चैकस्य मनोहरच्छायस्य पादपस्याधस्तानिवासं चक्रतुः । ततस्तुरङ्गमौतरुतले निवख्यषासादिकं निषिप्य निर्वृत्तसमुचितक्रियौ तौ तुरगश्रमं व्यपनीय स्वयमपि शयनाभिमुखौ भृत्वाऽऽस्तरणं प्रसार्यतस्थतः । तदानीं लघुभ्राता सुगुणसिंहः समुत्पन्नबुद्धिः प्रोवाच-ज्येष्ठबन्धो ! इदानीमेव कस्यचिनागरिकस्य शब्द आवाभ्यां श्रवणगोचरीकृतः, यदत्र महाभयविधायिनी राचसी वसति । तस्मादावाभ्यां सावधानतया स्थातव्यम् । श्रावयोरेकतमेन प्राहरिकंकर्म विधातव्यम् , अन्येन च निद्रासुखं सेवितव्यम् । यतो भयस्थाने निद्रालुना सवर्था न भवितव्यम् , युद्धस्थाने सदोद्योगिना भवितव्यम् , स्वसम्बन्धिजनेम्यो यथोचितविभागः प्रदेयः, प्रभूतश्रमोपार्जितं धान्यमन्यजनैः सहभोक्तव्यमिति चचारोगुणाः कुक्कुटाद्गृहीतव्याः । एवं ध्यात्वा तयोर्येष्ठः कञ्चनसिंहः प्रथमं सुष्वाप । सुगुणसिंहश्वधनुष्पाणिः सञ्जीभ्य तस्थौ । तस्मिन्क्षणे किमप्येकमाचर्य समजनि । तद्यथायस्मिन्नुद्याने यस्य पादपस्यच्छायामाश्रित्य स तस्थिवाँस्तस्यैव सविधौ भूरिशाखाप्रशाखाभिर्विस्तृतोन्यग्रोधोऽभूत् , तस्यो
॥५8M
For Private And Personlige Only