________________
Shri Mahavir Jain Aradhana Kendra
→→→*p*•* ̈*•→→pk«-*o******O*-***←
www.kobatirth.org.
परिकृतनीडः सपरिवारः कश्चिच्छुकोन्यवसत् । अथैतस्मिन्सरसि प्रगन्भध्वनिरेको दर्दुरोऽवसत् । स च भेकोनिशायां जलाद्वहिर्निर्गत्य स्वजातिभावं व्यञ्जयस्तीरस्यो ड्रॉ ड्रां ड्रॉमितिध्वनिभिः सममरण्यप्रदेशं गर्जयस्तस्थौ । तथैवास्मिन्वासरेऽपि प्राग्वच्छब्दान्कर्त्तुस लग्नः, तत्कर्णकटुकं भेकोदितं निशम्य तस्मिभ्यग्रोधेस्थितः स कीरोभृशं व्याकुलीभूय क्रुद्धस्तंभेकं प्रत्यब्रवीत्-रे दर्दुराधम ? उदरनिर्वाहार्थं समग्रवनं भ्रान्त्वादिनान्ते भूरिश्रमातुरोऽहं विश्रामार्थमत्रागच्छामि, तदागगनाङ्गयष्यापिना ध्वनिना त्वं रटसि येनाऽहं खन्पमपि निद्रासुखं न लभे । तस्मारोदनव्यापारं संहरसिचेद्वरमिति शुकोदितं वचनं समाकर्ण्य दर्दुरोऽवदत्-भ्रातः १ यदि मदीयं जल्पनं तुभ्यंनरोचते तर्हि स्थानान्तराणि बहूनि सन्ति, तत्र यथासुखं निवस, कस्त्वां रुणद्धि ? इदं सर्वं वनं भवदीयमेव विद्यते । ईदृशं सगर्वं दर्दुरोदितं वचनं निशम्य सञ्जातक्रोधभरः शुकः प्रोवाच-रे दुर्बुद्धे ? ईदृशानि सगर्वाणि वचनानि एवं नवदसि, किन्तु स्वदुदरस्थितानि रत्नानि त्वामेवं वक्तुं प्रेरयन्ति इदानीमहं किं करोमि ? पचिजातिज्ञातत्वात्साधन विहीनोऽस्मि, परमधुना कोऽपिपान्थो वीरपुरुषस्त्वामत्रहन्याच्चेत्तवजठरंविभिद्य तस्मादुदरादसंख्य मूल्यानि त्रीणिरत्नानि लमेत, किश्वाहमपि तथाकृते सुखेन निद्रामनुभवेयम् । इति शुकगदितां स्वप्राणापहारिणीं वाचं समाकर्ण्य क्रोधाग्निना ज्वलन्मानसो दर्दुरोऽवोचत्-रे पापाभ्रम ? मच्छिद्राणि समीक्ष्य प्रकाशयित्वाच त्वं सुखेनाऽत्र स्थातुं सभीहसे, परंकालत्रयेऽपि नैवंभविष्यति । योहान्यस्यामङ्गलमिच्छति स एव दुःखोपहतः पीयते । तस्मात्त्वमपि मद्वाक्यं शृणु-रे शुक ? स्वां निहत्य तवशरीस्यमांसं यो भचयेत् सनरोऽचिराद्विपुललक्ष्म्या समेतं महद्राज्यं पालयेत् । यश्चत्वदीयमस्तक स्वमसिं स्वादयेत्सतुद्वादशवर्षाणि विविधानि कष्टानि प्राप्नुयात् । परं यस्तवनिहन्ता स एव तवमस्त कपलालं मचयेदन्यथा
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir