________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
कोऽपिसिन्धुदेशाधिपतेः सञ्जनसिंहनृपतेर्गुणसुन्दरी कन्यांपरिणीयात्रसमानयति स नरोनिश्चयेन तद्देशस्यराज्यं लभते, ततोऽ- * प्यधिक मदीयराज्यार्द्धमपि तस्मै प्रयच्छामि । यदि तत्कार्यमकृत्वा निष्फलीभूय पश्चादागच्छति तर्हितस्यनरस्यशिरश्छेदं करोमि । इति नृपनिदेशं निशम्य राजदण्डभयादस्मिन्कार्येकोऽपि नरस्तत्परोनाऽभूत् । ततो विज्ञातैतद्वृत्तान्तौ नृपाङ्गजौ झटिति राजसभायां समागत्य निजजनकं नमस्कृत्य विज्ञपयामासतुः । तात ! सिन्धुदेशराज्यं सज्जनसिंहपुत्रीश्च समानेतुमावा बन्धूगच्छावः, कृपां कृत्वानौप्रयाणाज्ञां देहि । इत्थं कुमारयोर्वचनं श्रुत्वा भूपतिर्गमनानहौं तौ विचिन्त्य कथयामास-हे कुमारौ ! अधुना युवयोः सुकोमला बाल्यावस्था वर्तते, कदाचिदपि गृहाङ्गणं मुक्त्वा भवन्तौ नान्यत्र गतौस्तः, सत्यप्येवं युवा महाविषमप्रदेशमभिगन्तुं धृताऽभिलाषौ सञ्जातो. तत्सोढुमस्मद्धदयं भृशमधृतिं भजते, अतोऽहं प्रयाणाज्ञा दातुमक्षमः । ईदृशं पितुर्वाक्यं निशम्य प्रशान्तचेतसौ कुमारौ प्रोचतुः-जनक ? वयं सूर्यवंशीयाः मा, लोकेऽपि सूर्यवंशजामहापराक्रमशालिनः श्रूयन्ते । एवमपि यदि विषमकार्येभ्यः पराङ्मुखीभूय गृहकोणकेस्थित्वा दीनवदनाः सन्तः । पराक्रमाभिलाषिणः परामरामनिवारयामस्तर्हि किमस्मद्भुजबलेन ! यतथोक्तम्-किमपेक्ष्य फलं पयोधरान , ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः रवलु सा महीयसः, सहते नान्यसमुन्नतिं यया ॥१॥ अप्रदर्शितविक्रमस्य नरस्य कुलमपिकलङ्कितं भवति, क्षत्रियकुमाराणां कीदृशो धर्मः ! कथश्चतैर्वर्तितव्यमिति सर्व स्वयमेव जानासि, तत्र गमनेचास्माकं का क्षतिः! ईदृग्विधानि गम्भीरतराणि कुमारवासि समाकर्ण्य भूपतिः स्वविचारं शिथिलीकृत्य शुभे मुहूर्ते कुमारद्वयं सिन्धुदेशं प्राहिणोत् । अथ नृपादेश स्वीकृत्यवर्मनि प्रयान्तौ तौ कुमारौ सततप्रयाणेन कतिभिर्दिवसः सिन्धुदेशवर्त्तिनं सिन्धु
For Private And Personlige Only