________________
ShriMahavir JanArchanaKendra
Achnashnagarson Gyanmar
तृतीय: प्रस्ताव
भवितसेन सीलवतीचरितम्।
॥
७॥
यावच्च मदीयं स्वान्तं निर्मलंस्थास्यति तावदिदं सरोजं तत्कालोत्पनामिव विकस्वरं द्रक्ष्यसि, इत्थं निगद्य भर्तुसमेताशीलवती नगराबहिरुघानेऽजितनाथजिनेशितुर्मन्दिरं जगाम । गत्वा च भगवतोऽजितनाथस्य पूजा भावतो विधाय नानाविधैः स्तोत्र| कलापैश्च संस्तुत्य तत्रस्थिता प्रभोः सन्निधौ निजस्वामिनेजितसेनाय तत्कमलं प्रददौ। तेनाऽपि प्रीतिपूर्वकं तदुत्पलं स्वीचके, ततस्तस्कमलस्य परिमलो भृशं सर्वस्मिन्स्थलेऽवीणभावेनप्रसरतिस्म, नागरिकाश्च सततं विकसितं तत्सरोजं विलोक्य भृशंविस्मिताः परस्परमूचुः-महो ? अन्यानिकमलानिश्वासोच्छासमात्रेण विलीनानिभवन्ति, इदन्तु सततमविनश्वरश्रिया समालिगित विकसितमेवतिष्ठति, तत्सर्व शीलवतीशीलमाहात्म्यं विजृम्भते । अथैकदारिमर्दनभूपतिर्निजारीविजेतुं सकलं सैन्य सज विधाय मुख्य मन्त्रीश्वरमजितसेनमवादी-बुद्धिमन् ! त्वयाऽप्यस्मिन्कार्येऽस्माभिः सार्द्ध प्रयातव्यम् । इत्थं नृपनिदेशमजीकृत्यसोऽपि निजनिकेतनं समागत्य तद्वारी निवेद्य निजकान्तां प्रति प्रयाणाज्ञा ययाचे । तदाशीलवती प्रोवाच-स्वामिन् ! सुखेन प्रयाहि, शिवाःपन्थानस्तव भवन्तु, सर्व कार्य सपदि संसाध्य विजयश्चलब्ध्वा पुनरत्रभवान्मा समभ्येतु । कदा| चिदहं कार्यवशावता नविस्मर्त्तव्या । इति कान्तावचनं समायोजितसेनोजवीन-प्रिये' इदशगुणशालिन्यास्तव विस्मरणं कथं भवेत् ? शीलवती जगाद-प्राणपते ! स्वाथै कपरायोऽस्मिन्संसारे जनाः सुखप्राप्तिसमये परेतरानात्मयान्सुहदोऽपि विस्मरन्ति, सहोदरावकार्यवशात्परस्परं विस्मृतिमाजो भवन्ति, तर्हिपरेषां का कथा । तद्विषयेऽहमेकं दृष्टान्तं कथयामि तच्छ्रयतांभवता । अस्तिशशिकरकान्तसौधराजिविराजितं विशालोदनवप्रवलयपरिवेष्टितं शिवपुराभिख्यनगरम् । तत्र च भूरिप्रतापशाली दिगन्तकीर्तिमण्डलः समस्तानवद्यगुणसेवधिर्नीतिशास्त्रमहोदधेः पारगामी निरागस पालयिता
॥७॥
For Private And Personlige Only