________________
Acharya Shri
K
ragarson Gyarmande
विनम्राणां लालयिता वैरिवाराणां मदापहारको निजोरुकान्तिनिचयेन विनिर्जितमन्मथकान्तिनितान्तनित्यदानेन कल्पतरु विस्मारयन्विद्याविलासेनवाचस्पत्यं विस्तारयन्सुतरां दयावासितमानसश्चन्द्रसेननामा नृपती राज्यं करोतिस्म । परं तस्य मनी | पिणः संसृतितरुफलं सन्ततिसुखंनाभूत् । तस्मानिर्वेदमापनः स भूपतिर्दानादिना दीनादीन्समुद्धरन्सन्मार्गेषुधनव्ययं विशेषत श्वकार । तथापि प्रजादर्शनस्याभाजनं स बभूव । ततः स प्रजादुःखेन दुखितोऽहोरात्रंशोकनिमग्नचिन्तयामास-अरे । सन्ततिहीनस्य मे किमनेन राज्यवैभवेन ? अपुत्रस्य गृहं शून्यं, स्मशानमिव भासते । तदनं तन्मुखश्चापि, नैवपश्यन्ति देहिनः ॥१॥ श्लाघ्यन्तेपुत्रिणोलोके, ग्रुपकुर्वन्ति पुत्रिणः । तस्मात्पुत्रमुखंदृष्ट्वा, निवृत्ति भजतेबुधः ॥२॥ एवं ध्यायन्प्रतीतिभाजने निजसचिवेराज्यभारंनिक्षिप्यसभार्यः स्वयंचन्द्रसेनोनिजपत्तनं परित्यज्य तीर्थयात्रायै प्रयाणमकरोत् । शुभशकुन प्रेरितो नृपतिरविलम्बितप्रयाणेन सिद्धाचलरैवतकार्बुदाचलसम्मेतशिखरादि महापवित्रतीर्थेषु यात्रा विधाय सप्तचेच्या निज| विभवाऽनुसारेण द्रव्यव्ययंकुर्वन् पूजाभक्तिश्च विरचय्य स्वजन्मनः साफल्यं वितन्वन्वलमानः पुनरर्बुदगिरिमभीयाय । | तस्मिन्नद्रौ तौ दम्पती प्रभूतभावन प्रेरितो नानाविधपूजाद्रव्यैर्वीतरागस्य तीर्थाधिपतेरादिनाथस्य भगवतः पूजा विधाय
शुचिभावेन भावनां भाग्यतः,-संसारतारक ! विभो ? जगदेकनाथ !, भादीश्वर । त्वमसिदृष्टिगतोहिताय । त्वत्पादपङ्कजमिहास्तिनृणां सुखाय, प्रेत्यापि शाश्वतसुखं सुखिनातनोति ॥ १॥ इति भावनां भावयतोस्तयोस्तदधिष्ठायकः कश्चिदेवस्तत्र प्रादुर्वभूव । भावनान्ते समार्य नृपतिं प्रभुमन्दिराबहिनीत्वा तस्मै फलद्वयं प्रदाय स देवस्तं प्रोवाच-राजन् ? अमोघशक्तिक मिदं फलद्वयं भवितं तेजस्विपुत्रप्रदमस्ति, अतोगृहं गत्वात्वयेदं निजभार्यायै प्रदेयम् । तद्भवणेन सा पुत्रयुगलंप्रसविष्यति,
For Private And Personale Only