________________
Acharyacht
sagarten Gaman
सर्वशुभं भविष्यति । ततः सा स्वेष्टदेवस्तोतुं लम्ना-हेवीतराग ? प्रभो ! सर्वकार्येषुत्वमेव मे साक्षीभूतोऽसि, मदीयं कृत्यं सकलं त्वं जानासि, भवान्सर्वज्ञोऽस्ति-शरणागतवत्सलो भवान् , त्रिषु लोकेषु समय॑मूर्तिकः । त्वयिनम्रमुखाः सदा जना, सुखिनो यान्ति महोबतं पदम् ॥१॥ जिनदेव ? कृता स्तुति स्तव, मम दुःखौघनिवर्तकाऽस्तु वै । किमनेनविकल्पनेन वा, शरणं नो विफलं भवेत्तव ॥२॥हे परमेष्टदेव ? अधुना पतिसेवायां तत्परास्मि । अतो वहिज्वालायां पतितं बालं गृहीतुं न शक्नोमि, तत्सर्वे भवान् जानाति, इमं बालं त्वं रच, इति स्तुतिपरायणायां तस्यां स बालोवहौ घटिकाई स्थित्वा क्रीडितुं लग्ना, मनागपि रोदनं न चकार, मुखमुद्राऽपि तस्य निस्तेजा नाभूत् । अथपतिव्रता सेन्दुमती स्वपतिं ध्यायन्ती तथैव तस्थौ। कियत्क्षणानन्तरं तत्पतिर्विनिद्रोऽभूत् । तदा सा समुत्थाय वहिस्थितं तंबालं शीतिमानमनुभवन्तमिव प्रज्वलदग्नेः समुभृत्य निष्कासितवती । यथाऽनयास्त्रिया शुद्धपातिव्रत्यबलेन निजस्वामिनः सेवाभक्तिरक्षताविहिता, बालोऽपि निर्विघ्नतया समासादितः । तथैव शीलवत्यापि स्वपतिभक्तिप्रसादेन प्रभूतानि कार्याणि साधितानि, स्वपतिश्च सन्तुष्टोऽक्रियत । अथाऽन्यदा महासती शीलवती स्वमनसि किञ्चिद्विचार्य निजस्वामिनं प्रोवाच-हे प्राणेश ? मदीयं शीलं त्रिदिवाद्यदित्रिदिवेशः स्वयमायाति परं खण्डयितुं न समर्थोऽस्ति, तथाप्यार्थपुत्र ? राजकार्यव्यग्रचाद्भवतः स्थितिनिजसद्मनि स्वल्पैवजायते, किश्चान्येजनाः स्वस्वकार्यमुद्दिश्य बहवोत्र समायान्ति । तस्मादशुभकर्मणामुदयेन कदाचित्पूर्ववद्भवान्कुविकल्पं कुर्यादधवाऽन्ये जना अपि भूरिजनानां गमनागमनेन कुविकल्पिनो भवेयुस्तनिवृत्यर्थमहं मदीयशीलस्य परीक्षार्थ तुभ्यमेकं कमलं ददामि, तश्चयानिजान्तिके रचणीयम् । यदा मम चित्तं परपुरुषेण सह मलिन्यभविष्यत् तदा तत्कमलं कान्तिहीनमभविष्यत्,
For Private And Personal use only