________________
can sh
aqanun yaman
श्री
द्वितीय
अजितसेन शीलवतीपरितम् ।
वेपमानशरीरोभयसंत्रस्तस्वान्तो बालचन्द्रः सद्यो विलक्ष्यीभूय श्याममुखोजज्ञे । पुनर्मणिसेनस्तमवोचत्-यदित्वमत्रैवाधुना तद्रत्नं गुप्तं दास्यसितदा तवकीर्तिध्वंसोनभविष्यति, तृतीयः कोऽपिजनीनेदं चोर्यवृत्तान्त ज्ञास्यति, तद्रत्नविभागस्तवाऽपिमिलिष्यति । अतोऽञ्जसा चीयोऽपराधमिमं स्वीकृत्यतद्नं ममकरतले निधेहि । एवं कृते तव चौर्यापवादो लोके नप्रसरियति, युप्माकं राजसभायां विज्ञप्तिरप्येतादृशी विद्यते, यत्प्रच्छन्नतया रत्नमोपकाद्रत्नं गृहीत्वा सभासमचमन्येजना यथा तत्तान्तं न जानन्ति तथा न्यायं विधायास्माकं रत्नं देयमतोत्र यदि रत्नं दास्यमि तर्हि तव सर्वाऽभीष्टसिद्धिर्मविष्यति । इत्थंमणिसेनस्य निशई वचनं निशम्य बालचन्द्रो हस्तो नियोज्य दीनबदनः प्रोवाच-देवन्धो क्षमस्व मदीयमपराधम ! यदित्वं मम शिर छेदं कर्तुं समुद्यतोऽसि तानेन रत्नेन किंमेप्रयोजनम् ! यतो मरणानन्तरं सर्व राज्यादिकमपि न कस्यचिस्पृष्ठगतं विभाज्यते । तस्मात्तद्रत्नं प्रयच्छामि सुखेन गृहाण, माश्चनिर्दोष कुरु । इति कथयित्वा तेन निजसविथ विदार्य तन्मध्यस्थितं रत्नं निष्कास्य मणिसेनरूपधारिण्यै शीलवत्यै प्रदत्तम् । ततो लब्धरत्ना शीलवती सत्वरं निजगृहं समेत्य स्वस्वामिनेजितसेनाय तद्नं समर्पयामास । तदानीमजितसेनः प्रमोदं विभ्राणशीलवतीं प्रत्यभाषत-मृगलोचने 'अद्यममहृदयकुहरे प्रज्वलन् चिन्तामयचिताधिस्त्वया निर्वापितः। अतो महोपकारिणी त्वां मन्ये, यतश्चिन्ताग्निधिताग्नेरधिकतरोवर्णितः शाखे, तद्यथा-चिन्ता चितासमाप्रोक्ता, विन्दुमात्रविशेषतः । सजीवंदहतेचिन्ता, निर्जीवंदहतेचिता ॥१॥ तस्मादेभामिनि ? लम्वनिधानस्य निर्धनस्येव ममाय भूरिप्रमोदो जातोऽस्ति । इत्थं स्वकान्तां संभाव्याजितसेनस्तद्रत्नं समादाय शीघ्रमरिमईनभूपतेः समीपंगत्वा रत्नप्राप्तिवृत्तान्तमचीकथन् । भूपतिस्तदुदन्तं निशम्य परमानन्दं जगाम ।
For Private And Personale Only