________________
न्द्रेण स जगदे-मणिसेन ? तेषां चम्पकवतीभ रमीचन्द्रस्य सत्यं धैर्यश्च विशेषतो ज्ञायते । यतोऽप्सरसामपिध्येयमूर्ति सकलगुणसम्पत्रां मृगनयनांशशाङ्कवदना प्रौढयौवनां प्रमदा यो निजामीष्टी परित्यज्य तद्वचनरिरक्षया परमार्थपूचिमात्रेण विजयसेनस्य समीपे प्रेषीचत्कार्यमत्यन्ताश्चर्यजनकं दुरनुष्ठेयं तेन विहितमस्ति । तस्मात्स एव प्रशंसनीयः । इत्थं तृतीयस्य श्रेष्ठिसूनोविनयचन्द्रस्यामिमतं प्रश्नोत्तरं विज्ञाय प्रमोदतस्तांनिशां तत्र निर्गम्य प्रातस्तुरङ्गारूढः स निजावासमियाय । ततश्चतुर्थे बासरे रजन्यां क्षत्रियवेषं परिकल्प्य मणिसेनस्तुरङ्गममारुह्योत्तरगोपुरस्य समीपे यत्र बालचन्द्रो निवासं कृतस्वित्रस्थाने गत्वा निजाश्वमेकस्मिन्भागे बध्वा तस्य तृणादिना परिचर्या विधाय पश्चात्स्वासनं प्रस्तार्य तत्रोपविष्टः, षणात्स्वस्थीभूतःस पालचन्द्रं पूर्ववच्चम्पकवतीवार्चामत्रवीत् । पुनस्तेनपृष्टम्-बालचद्ध ! एषु पञ्चसु सत्यधैर्यधना को विद्यते ? तत्समाचक्ष्य । इत्थं मणिसेनगदितं निशम्य बालचन्द्रोवभाषे-मित्र ? सर्वेषां मध्ये चौराणां सत्यशीलत्वं धैर्यश्च विशेषतरं ज्ञातव्यम् । यतोऽचिन्तितागमनां बह्वलकारमाण्डितावयवां कामवनितारूपविजेत्री नवयौवना स्वसमीपे समागतां प्रमदा स्ववंशपरम्परया चौर्यकर्मविधायिनचौरा निर्विप्रतया तत्यजुः मतस्त एवं लोके धन्याः । इति चतुर्थस्य श्रेष्ठिसुतस्य बालचन्द्रस्य भाषितं निशम्य तत्कालमेव मणिसेनेन विज्ञातमयमेव रत्नापहारक इति परीक्ष्य निश्चयोविहितः। यतोऽयं तस्करविद्यायां निपुणोऽभिमानधारकश्चास्तीति दृढनिश्चयतोऽनुमानं विधाय तस्मिन्नेव समये मणिसेनः स्वकटिप्रदेशाद् खड्गमाकृष्य बालचन्द्रं निहन्तुमुद्गम्य साक्षेपमुवाच-तव पितापूर्णचन्द्रो युष्मदर्थमनयमेकं रत्नं स्वान्तिके रचितवान् , तस्यापहारकस्त्वमेवासि । तस्मात्तद्रनझटितिमझमधुनादेहि, नो चेदनेनासिपत्रेण तवशिर छेदं करोमि । इति मणिसेनस्य साहसिकं वचनं समाकण्ये
१०
For
And Persone
ly