________________
Shri Mahavir Jain Aradhana Kendra
श्री श्रजितसेन
शीलवती
चरितम् ।
॥ ५४ ॥
***++11+k+
www.kobatirth.org
'च रचितुं निजभर्त्तुराज्ञांगृहीत्वा मध्यरात्रौ भयप्रदमध्वानमुल्लङ्घय निजप्रतिज्ञां स्वपतेरप्यधिकतमां मन्यमाना स्वयमेकाकिनी वसन्तपुरमभ्येत्यनिजमित्रं विजयसेनं सम्मील्य निजसद्गुणैस्तं प्रीणायित्वाऽखण्डशीला निर्विशतया पुनः स्वपतेः समीपं जगाम । तस्मादहन्तुतां चम्पकवतीं धन्यांमन्ये । ईदृशंसुमतिचन्द्रोक्तं वचनं समाकर्ण्य मणिसेनः सन्तुष्टमानसस्तांनिशांतत्र निर्गम्य प्रभाते स्वस्थानमियाय । अथ द्वितीयस्मिन्दिने निशामुखे तथैव तुरङ्गमं सजीकृत्य क्षत्रियवेषधारको मणिसेनः पश्चिमगोपुरान्तिकस्थेचच्चरे स्थितस्य नवीनचन्द्रस्य समीपप्रदेशे स्वनिवासं कल्पयामास, अश्वश्चैकान्तप्रदेशे निबद्धय तृणादिकं प्रक्षिप्य स्वासनं परिकल्प्य स्वस्थीभूय स नवीनचन्द्रेण साकं स्नेहपूर्वकं कुशलवार्त्ता विधायपूर्वेद्युः सुमतिचन्द्रं यां वार्त्तामकथयत्, तामेव समग्रांन्यवेदयत् । ततोमणिसेनेन पृष्टम् - नवीनचन्द्र ? पश्चानाममीषां कः श्लाघ्यतमोज्ञेयः १ तदासजगाद - पथिक ? सर्वेषां विजयसेनोऽधिक सत्यधैर्यशाली प्रतिभासते । यतो निजदेहकान्त्या देवाङ्गनामुधरयन्तीं शारदेन्दुवदनां नूतना रूढयौवनां सुशोभितानर्घ्यवस्त्रालङ्कारमण्डितां गजगामिनीं स्वयमागतां संभोगार्थिनीं तां तन्वङ्गीरहसि निरीक्ष्य तत्कटाच वाणैरविद्धः प्राप्ततारुण्यः स विजयसेनो निजशीलव्रतंररच । तस्मादहं विजयसेनं धन्यतमंगणयामि । एवं द्वितीयस्य श्रेष्ठमनोर्नवीनचन्द्रस्योत्तरंनिशम्य मणिसेनस्तां रजनीं तत्रनीत्वा प्रातरुत्थायतुरङ्गममारुह्य स्वस्थानंययौ । तृतीयस्मिन्वासरे चत्रियवेषवान्मणिसेनः सज्जिताश्वसमारुह्य सायं दक्षिणगोपुरान्तिके यत्र विजयचन्द्रोऽस्थात् । तत्स्थानमवाप्यतुरगं निबद्धय तस्याश्वासनं सर्वविधाय श्रेष्ठिकुमारस्य सन्निधौ निजशय्यां विरचय्यशान्तचेतसामणिसेनोवार्ताविनोदं कुर्वन् तस्थौ । ततोऽसौ चम्पकवतीकथां पूर्ववद्विनयचन्द्रं समाचख्यौ । ततः स विनयचन्द्रपप्रच्छ- धीमन् ? एषुपश्चस्वपि विशेषतो धैर्यसत्यप्रियः को विराजते ? विनयच
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*************
द्वितीयः प्रस्तावः ।
॥ ५४ ॥