________________
ShriMahavir Jain ArachanaKendra
Acharya:shkailassagarsunGyanmandir
ततस्तमजितसेनं बहुधनप्रदानेन सत्कृत्य सन्तोप्य च सभायां सर्वान्जनान्मेलयित्वा नरपतिः श्रेष्ठिपुत्रानाजुहाव । स्वयंभूपति: सिंहासनमारुह्या सर्वान् श्रेष्ठिस्नून्योग्यासनेपवेशयामास । शीलवती तु राजसमायां नागमत् । यतः संमुखागमनेन तामु
पलक्ष्यरत्नापहारको बालचन्द्रोलआयाऽधोमुखीभूयसशङ्कः स्यात्तेन च सभ्यजना जानन्त्ययं चौरइति । महो। सञ्जनानां कियभदौदार्यम् । इतोऽजितसेनस्तद्रलं नृपतेराज्ञयाचतुरस्तान् श्रेष्ठिसुतान्दयित्वा पृच्छतिस-हेमहेम्याः ? इदमेवरत्नं भवतां
किम् । तेऽपिनिर्जरत्नं सम्यगुपलक्ष्यासाकीनमेवेदमित्यूचुः । हेभूपते । अस्माकं न्यायो यथार्थों विहितः, परन्त्वेतावदसाकं विज्ञापनीयमवशिष्यते, यद्भविष्यत्कालेऽस्माकं हृदयक्षेत्रेक्लेशाकुरोनप्रादुर्भवति, तस्मादिदं रत्नं भवता गृह्यताम्, तद्रत्नप्रमितं धनं समभागेन विभज्य खयमेव भवानस्मभ्यं ददातु, भवत्सेवकैःसंरक्ष्यमाणानस्मानस्मद्गृहं प्रापयति प्रसादो विधीयताम् । इत्थं तेषां प्रार्थनां श्रुत्वा नृपतिस्तथाकृत्वा तान्सन्तोष्य परमप्रमोदेन निजनगरं प्रेषयामास । महेभ्यसूनवोऽपि संपनमनोरथाः स्वगृहं समासाद्य निजसम्पत्यनुसारेण सुखवैभवान्युजिरे ॥ इतिश्रीजगद्विभूषणशासनमहोदधिशीतरश्मिस्वपरसमयपारदर्शितपोगच्छदिवाकरभव्यजनतारकमातःस्मरणीययोगनिष्ठाध्यात्मज्ञानविभाकरश्रीमबुद्धिसागरसूरीश्वरशिष्यरत्नश्रीमदूअजितसागरसूरिविरचितेऽजितसेनशीलवतीचरितेशीलगुणोपाख्याने श्रीरत्नाकरमहेम्यवर्णितमदनसेननृपदृष्टान्तर्गतसाहसिककार्यविधायकशुकविहिंसकचन्द्रभूपाल-पान्थचतुष्टयमारणोद्यतभूमिपाल-भुजगकालाननविमोचकधनपालवधोधतमदनसेनवृत्तान्तकथनानन्तरस्वगृहागच्छद्रत्नाकरपरिपृष्टशीलवती निमपूर्वोक्तवचनसमा
धाननिमालयप्रात्यजितसेनदिगन्तकीर्तिवर्णनाधिकारे द्वितीयः प्रस्तावः समाप्तिमभजत् ॥ २॥
For Private And Personlige Only