SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री अजितसेन शीलवती चरितम् । ।। ५२ ।। ***+++++******++++*****० www.kobatirth.org रधस्तान्निषष्णाः कियन्तः शस्त्रपाणयः स्तेना यमदूता इव भयावहा मिथो मन्त्रयन्ति स्म । अद्यवयं कुत्र गमिष्यामः ? कस्य धनिनो गृहेलो दास्यामः ? इत्यादि वितर्कान्प्रकुर्वन्तस्ते मलिम्लुचा ग्राममभियातुमुदतिष्ठस्तावदस्याः कन्याया नूपुयोर्ध्वनिं श्रुत्वा यावद्दृष्टिप्रसारं कुर्वन्ति तावदागच्छन्तीं चम्पकवतीं ददृशुः । मिथस्ते वदन्तिस्म - बान्धवाः १ अस्मिन्वासरे प्रयत्नेन विनाऽस्माकं प्रारब्धबलाद्देवयोजितो महालाभो जातः पश्यत सालङ्कारेयं भार्या कस्यचिद्धनपतेर्विद्यते । यतोऽस्याः शरीरावयवेषु प्रायशो दशसहस्रमुद्राप्रमिता अलङ्कारा दृश्यन्ते, असौ कामिनी स्वयमेवास्माकं समीपमागच्छति, इदानीं शकुनावेक्षणे को हेतुः ? एवं मन्त्रयित्वा ते चम्पकवतीं परितो वेष्टयामासुः । खड्गं च नगं विधाय तां भापयित्वा कथयामासुः प्रमदे ? इमानित्वदङ्गभूषणानिसच्चरं समुत्तार्याऽस्मास्वधीनानि विधेहि, नो चेच्चां हनिष्यामः । ईदृशं महारौद्रं तेषां वाक्यं श्रुत्वा चम्पकवती भयाक्रान्तमानसा जज्ञे । तथाऽपि धृतधैर्यकञ्चुका सा चौरान्प्रत्यवादीव-हे भ्रातरः ? इमे सर्वे मदङ्गलग्ना अलङ्कारा भवदीया एव सन्तीति निश्वयतया जानीथ, परंयत्कार्यं विधातु महंत्र जामितद्विधाय पुनरत्राग मिष्यामि तावत्पर्यन्तं क्षमां संप्रधार्य सालङ्कारां मां तत्र गमनायसमादिशत, भवतामहंपुत्र्यस्मीति मत्वा मयिदयोपकारं विधायैतत्कार्य करणाय कृपालवो भवत, पुनश्चात्र समागम्य सर्वानलङ्कारान्दास्यामीति सत्यप्रतिज्ञां करोमि । इत्थं कन्यकायाः प्रलापंनिशम्य चौराः कथयन्तिस्म-वनिते १ अत्र सत्यधर्मस्य प्रयोजनं नास्त्यस्माकम् । त्वं किं न जानासि ? अपराधमन्तरेणाऽपि मार्गयायिनोजनान् त्रासयन्तो महाघातकारिणो वयं चौराः स्मस्तर्ह्यस्माकं वज्रसारहृदयेषु दयादाक्षिण्यसत्यतादयोगुणाः कथं भवन्ति । तस्मात्वमस्माभिः साकमालापादिकं करिष्यसितत्सर्वं निष्फलं भविष्यति । ततश्चम्पकवती वि For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 10/4+19+0 द्वितीयः प्रस्तावः । ॥ ५२ ॥
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy