________________
न्तस्य वर्णनमप्यतीवनिन्धहानिकारकञ्चविद्यते । तथाऽप्यनिरुपायाऽस्मि। ततो ममापराधंचान्त्वा यद्याज्ञां देहि तदा यथार्थ मद्वृत्तान्तं निवेदयामि । एतादृशंनिजकान्तायावचनं श्रुतिगोचरीकृत्यामीचन्द्रोऽवोचत्-कान्ते ? यत्तवचेतसि वेदनाशल्यं | भवेत् तत्सुखेनत्वयाप्रकाश्यताम् , तदहंचणेनोरिष्ये, तस्मिन्विषयेतवकाऽपि चिन्तानविधेया । एवंनिजभर्तृवचनं निशम्य चम्पकवती धृतधैर्या निजवृत्तान्तमचीकथन-प्रियकान्त ? बाल्यावस्थायां पाठशालायामभ्यासंकुर्वन्त्या मया विजयसेननाम्ने मन्मित्रायेतिवचनंप्रदत्तम् , प्रौढयौवनस्यापूर्वलामं प्रथमं तुभ्यंदास्यामि तदनन्तरंपाणिगृहीतुः समागमं करिष्यामीतिसहेतुकं साद्यन्तं वृत्तान्तं तस्मै निवेद्यपुनः साऽवोचत्-स्वामिन् ? मत्प्रतिज्ञा यथामृषानभवेत्तथाभवता कोप्युपायोनिर्देष्टव्यः । एतादृशंकान्तावचनं निशम्यधैर्येणविराजमानः शीलसम्पदाढ्योऽमीचन्द्रः सत्यसन्धोऽवितथवादी मनसि मनागपि क्रोधाऽनलमप्रकाशयन्वैषयिक सुखं तृणवन्मन्यमानः सम्प्राप्तमपि संभोगसमयं परित्यज्य तामिति समादिशत्-कमलनयने ? यस्मै नराय त्वया वचनमदीयत तस्य समीपं सत्त्वरंव्रज, विलम्ब मा कुरु । यतो विश्वासघाते महादोषः प्रादुर्भवति, विश्वासघातच
दुर्गतेरेवहेतु:-विश्वासघातजं पापं, निरये पातयत्यरम् । दुर्गतिद्वारभूतं तं, वर्जयेद्यत्नतः सुधीः ॥१॥ अतएवेदं कार्य * त्वया प्रथमं साधनीयमितिमदभिप्रायोऽस्ति । येन केनाप्युपायेन स्वप्रतिज्ञातं वचनं त्वं सत्यापय । इति निजभर्तुर्वचनमङ्गी
कृत्य सद्यः पादाग्रमारभ्य सर्वाङ्गेषु विविधानलकारान्धारयन्ती चारुनेत्री स्फारशृङ्गारशोभिता चम्पकवती स्वजनकनगरनिवासिनो बालमित्रस्य विजयसेनस्य मीलनाय पत्तनाद्वहिनिरीयाय । तदानीं महान्धकारव्याप्तायां निशीथिन्या स्वयमेकाकिनी सा कोशमात्रमध्वानमुल्लङ्घय प्रयाति तावत्तस्मिन्वर्मनि महानेकोन्यग्रोधः स्वल्पतोया सरिचागमत् । तस्य तरो
For Private And Persone
ly