________________
द्वितीयः प्रस्तावः।
श्री | तस्याश्चेतसिपूर्वकृता प्रतिज्ञास्फुरिता । यन्मया विद्याभ्याससमये पाठशालायां मदीयमित्रविजयसेनस्य हस्ते वचनं प्रदत्तम् । अजितसेन | यथानिजमर्नुसमागमात्प्रागभवता सार्क क्रीडिष्यामि। तस्मादिदानींमयाकिं कर्त्तव्यम् । अस्मिन्क्षणे स्वामिनोवशंवदाऽस्मि, शीलवती
संसारसुखस्योत्तमलाभस्य भाजनमद्यैवसम्पन्नाऽस्मि ? ततःपूज्यतमं शिर छत्रं स्वपतिं परित्यज्यान्यत्रमयाकथं गम्यते ! चरितम् ।
| इतश्चाहं प्रदत्तवचना मित्रेण प्रतिबद्धाऽस्मि । यदि तत्समीपमधुना नव्रजामि तदा विश्वासघातजन्यो महान्दोषोभवेत् । सर्व * दोषेभ्योऽयंदोषोमहान्गण्यते, उक्त-ब्रह्मनेच सुरापेच, चौरे भग्नव्रते तथा । निष्कति विहिता सद्भिः, विश्वासघ्ने ननिष्कृतिः | ॥१॥ उपकारिणि विश्वस्ते, शुद्धमतौयः समाचरतिपापम् । तंजनमसत्यसन्ध, भगवति ? वसुधे ? कथं वहसि ॥२॥ शोकमाकुरुकुक्कुर ? सत्त्वेष्वहमेव अधम इति साधो । कष्टादपि कष्टतरं, दृष्ट्वाश्वानंकृतघनामानम् ।। ३ ॥ अहो ? खलाना सत्कृतिरनर्थजननी,-यतः-व्योम्निशम्बाकुरुते, चित्र निर्माति यत्नतः सलिले । स्नपयति पवनं सलिलै-यस्तु खलेचरति सत्कारम् ।। १॥ तस्मादधुनाऽन्योनास्त्युपायः । इतोव्याघ्र इतस्तटिनीतिन्यायोममाऽपिसंप्राप्तः । इत्थंवितर्कयन्त्यास्तस्या स्तत्र कियान्समयोव्यतीतः परंकोऽपिविचारस्तया न लब्धः। स्तब्धमतिः सा किंकर्त्तव्यतायविमूढाजले । तदानीं तादृगवस्था विचारनिमग्रामन्तरालस्थितांताविलोक्यामीचन्द्रोऽवादीत-हेसुदृ? अयं दिवसोलोकेश्लाध्यतमोगण्यते, यतः संसारसुखप्राप्तेर्हेतुभूतोऽयमेवरजोदर्शनकालोविद्यते, तस्मादयत्वयामहोत्साहोविधातव्यः । युवजनलोभनीययौवनस्यसाफल्यमप्यस्मिन्नेवदिनेरत्याप्तक्रीडाभिः संपादनीयमस्ति । एवं विजानन्त्यपित्वं कथं शोका लक्ष्यसे । तत्कारणंवद । इत्थं निजभर्चुगदितं निशम्य भयभीतमानसा लजयाविनम्राननपङ्कजा भूरिविनयेननियोजितकरयुगला चम्पकवतीवभाषे-स्वामिन् ? मदीयवृत्ता
॥५१॥
For Private And Persone