________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
मनसि कपटभावं विचिन्तयन्विजयसेनस्तामुवाच-चम्पकवति ? मममार्गितं यदि त्वंददासिताहिगुरुणा पृष्टं गणितत्वां शिक्षयामि । तच्छ्रुत्वा सरलभावा चम्पकवती चेतसि व्यचिन्तयत्-अहो! किमयं मार्गयिष्यति ? कदाचिन्मिष्टान्नादिभक्ष्यपदार्थान्याचिष्यति तर्हि तत्सर्व प्रदातुमहंसमर्थाऽस्मि । इति संप्रधार्य तया कथितम्-विजयसेन ? तववाञ्छितमहंपूरयिष्ये, तदाकपटनिधानास पुनरवदत्-सत्यङ्कारेण यदिमांवचनंददासि तर्हिसत्यं मन्येऽन्यथात्वदीयविश्वासं कथं करोमि ? यतः स्त्रीणां सप्तदोषाः स्वभावसिद्धा भवन्ति । उत्तञ्च-असत्यं साहसं माया, मूर्खत्वमतिलोभता। निर्दयत्वमशौचत्वं, स्त्रीणां दोषाः स्वभावजाः॥१॥ अतो वचनदानमन्तरा विश्वासो नैवजायते । अथैवं दुराग्रहग्रस्तंतंनिश्चित्य तद्धदयगतमायाप्रबन्धश्चाजानन्ती बाल्यावस्थामनुभवन्ती वचनप्रदानेन परिणामे कि भविष्यतीति विचारशून्या सा तस्मै वचनं प्रादात् । ततोनिष्पअमनोरथोविजयसेनोऽवादीत-चम्पकवति ? यदातवपाणिपीडनं स्यात्तदात्वयापूर्ववयसः प्राथमिकं सुखंमांप्रदेयंपश्चात्स्वभर्तुः समागमोविधातव्यः । इति तद्वचनंश्रुत्वावजाहतेव महापत्तौनिमग्ना सा स्वमनसिव्यचिन्तयत्-रे ? इदानींकगन्तव्यम् ? किं विधेयम् ? कश्चोपायो मयाविधातव्यः १ एवं बहुधाशोचन्ती वचनपाशनिबद्धाऽन्योपायमजानन्ती सा दुराधेयमपितद्वचनमङ्गी
चकार । ततो गुरुणापृष्टं गणितं तत्सन्निधौशिक्षयित्वासा गुरुं निवेदयामास । अथ कियताकालेन यौवनारूढां चम्पकवतीं | निरीक्ष्य विमल श्रेष्ठी स्वनगरात्क्रोशद्वयंचन्द्रपुरनगरवासिनो धनाढ्यस्य कल्याणचन्द्रवेष्ठिनः सूनुनाऽमीचन्द्रेणसार्द्ध चम्पकवत्याः पाणिग्रहं कारयामास । ततःकियद्भिर्दिवसैः सा रजस्वला बभूव, समयवेदी तत्पिता चम्पकवतीं श्वशुरगृहं प्रेषयामास । तत्रनैशिके समये सञ्जाते निखिलालङ्काविभूषितावयवाचम्पकवती निजस्वामिनः शयनगृहं प्रविवेश । भदर्शनमात्रेण
For Private And Personlige Only