________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
लक्षीभताऽपि पुनस्तान्प्रार्थयितुं लग्ना, हे बान्धवाः सहसान मदीयागमनाद्भवतामचिन्तितो लाभः सञ्जातस्तथापि मयीतो गतायां युष्माभिर्विषादोनविधातव्यः । यतोऽस्यां रात्रौ यत्र यूयं गमिष्यथ तस्मात्स्थानाघुष्माकं भूरिधनलामो भविष्यति । पुनरत्र भवद्भिरागन्तव्यम् । तावदहमपि मदीय कार्य निर्वृत्य सत्वरमत्रैवागमिष्यामि, मदङ्गलमानि भूषणानि युष्मभ्यमेवदास्यामि । किश्च मध्यरात्रिसमये सार्थमन्तरा स्वयमेकाकिन्येवात्र समागताऽस्मि तर्हि, कीदृश्यावश्यकतामदीयकार्यस्य भविष्यतीति यूयमेव विचारयत । इत्युदित्वा कन्यायां विरतायां चौरा अपि विश्वासमाजोबभूवुः । ततः सा वीतभया तस्मात्स्थानादग्रेचचाल, तावत्तद्वनि घोररूप एकः पिशाचः समागत्यव्रजन्तीं तामुवाच-प्रमदे ? दिनत्रयादृशंचुधितोऽस्मि, अद्यतृप्तिजनकं भक्ष्यं मिलितम् , तवदेहेन शरीरवृत्तिं संपादयामि, अतस्त्वं स्वेष्टदेवस्य स्मरणं कुरु, तवचर्वणेन तीव्रदशनान्सोद्यमान्करोमि, तुधाचशमयामि । इति पिशाचवाक्येनकम्पमानाऽपि हृदिधैर्य समाधाय प्रगल्भा सा बाला युक्तिवचनैस्तंतोषयित्वा स्वकीय वृत्तान्तं सर्व व्यजिज्ञपत् । विशेषतश्चैवं साऽवादीत्-निशाचर त्रीणि दिनानिक्षुधाकुलितस्त्वं व्यत्यगास्तथा घटिकात्रयमपिनिर्वहनीयम् । तावदहमावश्यकं कार्य सम्पाद्य वलमानामांप्रतीक्षमाणेभ्यश्चौरेभ्योऽङ्गलनानीमान्याभरणानिवितीर्य समागच्छामि । पश्चान्ममभचणं सुखेनत्वयाकर्त्तव्यम् । यतोऽस्मिञ्जगतिजीवितादहं निर्वियाऽस्मि निन्धकार्याचरणेनसहैव जीवितान्तमपिवरं मन्ये । इत्थं कन्यावचनं समाकण्ये निशाचरस्य स्वान्ते विश्वासोजनि । तेन सोऽपि तां कन्यां स्वाभिलषितप्रदेशमभियातुं निर्विघ्नतया विससर्ज । अथ चम्पकवती स्वपितुर्नगरं गत्वा विजयसेनस्य गृहं प्राप। मध्यरात्रिसमयत्वात्पिहितद्वारमुद्घाट्यापर्के सुखशयने शयानस्य निजमित्रस्यान्तिके गत्वा सा तस्थौ । तस्मि
For Private And Personlige Only