________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
लायामगच्छताम् । विहितभोजनोऽजितसेनो राजमन्दिरमम्मेत्य तान्महेभ्यपुत्रान्समाहूय गोपुरचतुष्टयान्तिके पृथक् पृथक् स्थानेषु स्थापयामास । अथ व्यतीते सन्ध्यासमये तस्यामेव रात्रौ शीलवती स्ववेषं परित्यज्य क्षत्रियोचितं पुरुषवेष परिधाय वायुवेगमेकं वरमश्वमारुह्य नगरादहिनिर्गता । यामप्रमितायां निशायां व्यतीतायां कियडूरंगत्वापुनः पश्चाद्वलित्वा वैदेशिकोऽश्ववारइव कृत्रिमवेषा सा शीलवती यत्र श्रेष्ठिपुत्रोज्येष्ठः सुमतिचन्द्रोनिवासमङ्गीकृत्य संस्थितस्तत्र पूर्व दिग्गोपुरान्तिकस्थाने समागत्य चोत्तारकं कर्तुं तत्रैवाश्वात्समुत्तीर्य तमश्वं बबन्ध । ततस्तस्मात्पर्याणमुत्तार्य तदन्तिकालिन्दे. मुमोच । तदनु धान्यतृणादिकं तमश्वमशयित्वा स्वयं स्वस्थीभूयनिजास्तरणं चैकस्मिन्स्थाने प्रस्ताय क्षत्रियवेषा सा पान्थस्य सदाचारं यथार्थमेव व्यञ्जयन्ती सुमतिचन्द्रं पप्रच्छ-प्रियबन्धो ? भवान्कोऽस्ति कुतस्त्वं समागता? कुत्र गन्तुं तवाऽभिलाषा वर्तते । एवमजानानेव सा तमप्रश्नयत् । ततः सुमतिचन्द्रेण पान्थप्रश्नानामुत्तरः संक्षेपेण विहितः । ततस्तेन पान्थः पृष्टः-हे भ्रातः त्वं कस्मादिहायातः ? कुत्र जिगमिषा तव वर्त्तते ! त्वदभिधानं किम् ! कतम वंशादिकं च विभूषयसि ? इत्थं सुमतिचन्द्रस्य वांसि समाकर्ण्य कृत्रिमः पान्थो जगाद-मोहनपुराभिधं मदीयं नगरं विजानीहि, आनन्दपुरे पत्तने मम जिगमिषा वर्त्तते, मणिसेननामाहं चत्रकुले प्रसूतोऽस्मि । वर्मनिगच्छतो मम सूर्योऽस्तमितोऽतएवात्रोषितुमिच्छा जाता, अधुनैव मार्गे भोजनं विधाय समागतोऽस्मि, ततो भोजनेच्छाऽपिनास्ति, तस्मानगरान्तर्गमनेनापि नास्ति मे प्रयोजनम् । अस्या रात्रावत्रोषित्वा प्रभाते समुत्थाय निजमार्गगामी भविष्यामि, इत्यभिधाय पुनस्तेन सुमतिचन्द्रः पृष्टः- श्रेष्ठिसूनो ? भवतो भोजनाभिलाषा वर्तते । सोऽप्यवादीत्-मयाप्यधुनैव भानौ विद्यमाने भोजनं विहितं तस्मान्मे बुभुचा
For Private And Personlige Only