________________
Acha
Shn
a garsun Gyaan
all
द्वितीयः
प्रस्तावा।
अजितसेन शीलवतीपरितम् ।।
॥४९॥
प्रसादेन मदधीना वर्चते । यतः सा व्यवस्था साम्प्रतं मयैव वहनीयाऽस्ति । ईदृशं निजस्वामिवाक्यं निशम्यशीलवती प्रोवाच-स्वामिन् ? भवदीयमिदं वचनं महाभेदग्रस्तं विद्यतेऽतोऽस्य वाक्यस्य यदि स्पष्टीकरणं भविष्यति तदैवाऽहं मोजनं करिष्यामीतिमे सत्यसङ्गरंजानीहि । इयं मद्भार्या महाचतुरा कार्यदक्षा विद्यते, पुराप्यनयाकान्तया निजबुद्धिप्रभावेण मदीया विपत्तयो दूरीकृताः सन्ति, इत्थं तद्गुणानां स्मरणं विदधानोजितसेनो मनोधृतां वार्चा कथयितुं प्रारमत-मृगलोचने ? देशान्तराच्चत्वारः कस्यचिन्महेम्यस्य पुत्रा अत्रसमागतास्तैर्नृपाग्रे गत्वेति विज्ञापितमस्ति, भूपते ? अस्मास्वेकतमेन रत्नापहरणमक्रियत नूनम् । अतोऽन्ये जना रत्नापहारकाभिधानं नविजानन्ति तथा कृत्वा सम्यजनसम तद्रत्नमस्मास्वधीनं कुरु । एवं तेषां वणिजां न्यायस्वरूपं विचित्रं विद्यते, तस्मिन्विषये कोऽपि साची नास्ति, अन्यत्किमपि साधनान्तरं नास्ति, पुनस्ते चत्वारो देशाटन विधायिनः पण्डितसंसर्गिणश्चातुर्यकलासमन्विता विलोक्यन्ते । प्रथमं निजदेशाधिपतेः सन्निधौ तैर्निजरत्नापहारवृत्तान्तं विज्ञापितम्, परंतत्र तमिराकरणं नाऽभूत् । ततस्ते खनगराधिपतेः सम्भावनापत्रिका समादायात्र समागताः । अनौवचिन्तया समाग्रस्तोऽस्मीति निजपतेनिरुक्तिं समाकर्ण्य शीलवती प्रोवाच-हे मः अस्मिन्न्यायविधाने कापि चिन्ता भवता नविधेया, भोजनस्याऽवसरो जातस्तस्मात्सत्वरमुत्तिष्ठ, चतुर्मिरेव वासरैरहमेतेषां वैदेशिकानां विवादं निश्चित्य यथार्थ न्यायनिर्णयं करिष्यामि, परन्त्वितःप्रभृत्यवशिष्टेपु दशसु वासरेषु ते चत्वारो वणिक्सुता मिथोमिलित्वा यथा न मन्त्रयन्ति तथा व्यवस्था त्वया विधातव्या । एतदर्थचैते चत्वारश्चतुर्णा गोपुराणां समीपवर्चिषु राजगृहेषु पृथक् पृथक् स्थापनीयाः । इत्थं तौ दम्पती मिथः संमन्य भोजनशा
॥४९
For Private And Personlige Only