________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
सर्वतः परीक्ष्य न्यायं भवान्विदधातु, इति विज्ञापनीयं स्वमतं राज्ञनिवेद्य सुमतिचन्द्रः स्वोचितस्थाने निषसाद । ततो महासदसि संस्थिता विद्वांसः प्रजापतिरमात्यादयः सर्वे सभ्यास्तादृशं सुमतिचन्द्रवचनसन्दर्भनिशम्य चित्रार्पिता इव तस्थुः। अथारिमईनभूपतिरजितसेनकुमारेण सार्द्धरहसि मन्त्रयित्वा तान् कथयामास-हेष्ठिसूनवः ? भवतां न्यायं मासैकेन विधास्यामः । इत्थं तांस्तोषयित्वा स सभ्यजनान्विसृज्य तत्कार्य विधातुमजितसेनकुमाराय समर्पयतिस्म । अथाजितसेनः स्वगृहं समेत्य मनसि व्यचिन्तयत् , अहो ? अमीषा न्यायः केन प्रकारेण मया विधातव्यः१ रत्नापहारकः कथं परीक्षणीयः? इत्थमहर्निशं विचारयन्कामपि युक्तिं नालभत, भोजनादिकार्याण्यपितस्मैनारोचन्त, ततःस हास्यादिवार्तालापात्पराङ्मुखो बभूव, एवं कार्यचिन्तानिमग्नस्य तस्य विंशतिदिनानि व्यतीयुः । ततोऽन्यदागम्भीरमीमांसायां निमग्नमानसोजितसेनः स्वास्थान्यामुपविष्टस्तस्मिन्समये शीलवती तत्रागत्य निजभर्तुः क्रमयुगमभिवन्द्य जगाद-स्वामिन् ? अहमत्र भवतोऽग्रे मुहूर्तार्द्धमभिव्याप्य संस्थिताऽस्मि, तथापि मां दृष्टिमात्रेणाऽपि न निरीक्षसे, तस्मात्कीग्विधं कार्यमायातमस्ति ? यस्मिनिपतितो भवान् व्याकुलितमानसोजनि । पुरा यदा मां व्यलोकयस्तदा सुप्रसन्नवदनारविन्देन सुधासमानदृष्टया च समभाषयः, परमद्य भवदीया प्रवृत्तिर्विचित्रा लक्ष्यते । अतो यन्मनोगतं शल्यस्यात्तत्सत्यतया मदने प्रकाश्यताम् । भवतो मुखाकृतिरस्मिन्दिने भृशमौदासीन्यं द्योतयति । तस्माद्धदयशल्यं दूरीकुरु । हे वल्लभ ? भोजनावसरोऽपि सजातोऽस्ति, भोजनं कर्तुं सत्त्वरमुत्तिष्ठ । इति करुणोत्पादकानि पीयूषसोदराणि स्वकान्ताया वांसि समाकर्ण्य धृतधैर्यकवचो जितसेनोऽवदत्-धर्मपत्नि ? राज्यकार्यस्य प्रसङ्गा अनेकविधाः सन्ति, अधुना राजकीयकार्यभारव्यवस्था त्वदीय
For Private And Personlige Only