________________
ShriMahavir Jain ArachanaKendra
Acharya:shn.kailasmagarsunGvarmandir
निशम्य प्रमुदितहृदयः पुनर्वितीयं प्रश्नमजितसेनमपृच्छत्-बुद्धिनिधान ? अस्मदीयोऽयं करीन्द्रोवर्त्तते, तंतोलय कियन्मानोऽस्ति ? इत्थं नृपवचनमङ्गीकृत्य श्रेष्ठी निजगृहमागत्यशीलवतीपप्रच्छ-कान्ते ! हस्तितोलनस्योपायंदर्शय, शीलवत्या तदुपायः प्रदर्शितस्ततोऽजितसेनो नृपहस्तिनसमादाय नृपादिषु पश्यत्सु तं नावि समारोप्य यावन्तीजलेनिमग्ना नौस्तत्र रेखाचिह्न निर्माय तस्यानौत: करिणमुत्तार्य याबद्रेखं नौजले निममज तावन्तः पाषाणखण्डास्तस्यां संभृताः पश्चात्ता नावंरिक्तीकृत्य सर्वानश्मखण्डाँस्तोलयित्वा स हस्तिमानमकथयत् । इत्थमजितसेनस्यबुद्धिवैभवं विलोक्यभूपतिस्तंभृशं
प्रशशंस । अथान्यदा कस्मिंश्चित्समये राजसभायां कश्चिदेको वणिम् भूपतिं नमस्कृत्य व्यजिज्ञपत्-नरनायक ! किम्पाक T फलोपमोमुखे मधुरोऽभ्यन्तरे विषमविषधारको वणिग्धूतः कश्चिदमिन्नेव पत्तनेनिवसति, तेनसाकमज्ञानधियाऽशुभकर्मणा
मुदयादा मममैत्री समजनि, यथाकदल्या बदरीवृषेण सह कुतश्चिद्योगोभवति तद्वन्ममापि सञ्जातः । अन्यदा धनार्जनेच्छुरहं तस्मै धूर्तमित्राय मम गृहव्यवस्था निवेद्य देशान्तरमव्रजम् । तदनु फलितक्षेत्ररक्षकोयथाक्षेत्रजन्यवस्तूनिभुते तथाऽयंदुराचारी मदीयं सर्वस्वमपहृत्यात्मसात्कृतवान् । अवसरं प्राप्य मम भार्ययासह दुराचारतयाऽसौ प्रावत्तेत । अहो! दुष्टा जना निन्धकार्योद्यताः किंकिन कुर्वन्ति ? दैवादपिते नबिभ्यति । इतः कालान्तरे लब्धधनोऽहं देशान्तराद्गृहमागतस्तदामदागमनवृत्तान्तं ज्ञात्वा सधूर्तोऽपि मममीलनायसमागतः । धनप्राप्तिविषयक सर्व वृत्तान्तं मूलतः समारभ्य मयातस्मै निवेदितम् । तच्छ्रुत्वा कलुषितमानसः सधूर्ती मामवदत्-मित्र ? देशान्तरेचिरं परिभ्रमताभवता यत्किञ्चिदाश्चर्य व्यलोकि तनिवेद्य मां सन्तर्पय । तदाऽहं वर्त्मन्यागच्छन्यदृष्टवाँस्तदकथयम् । इतोनातिदूरे वृक्षघटामण्डितो रमणीयलक्ष्मीरेकोऽस्त्यु
For Private And Personlige Only