________________
Achana Sh
a garuun yaman
द्वितीय प्रस्तावः।
अजितसेन
शीलवतीचरितम् ।
॥४५॥
व्यापाराः सदोदिताः प्रावर्तन्त । स्वदेशजनितानि क्रयाणकानिविदेशेषुयःप्राहिणोत्, देशान्तरीयाणि वस्तूनिचस्वयमानाययतिस्मत्थमनेकधाव्यवहारपटुतया तस्य कुमारस्य प्रसिद्धिः सर्वत्र विशेषतोजज्ञे । तथैव राजसभायामपिस लब्धप्रतिष्ठोऽभूत् । प्रतिदिनं स राजमन्दिरे च कार्यवशाद्गमनागमनमकार्षीत् । अथाऽन्यदा राजसभायामजितसेनकुमारः स्थितस्तावसिंहासना रूढो भूपतिश्चिन्तयामास-इदानींमत्कार्यचिन्तकाएकोनचतुःशतीप्रधानाः सन्ति, तेषु मुख्यामात्यपदवीधारकाकोऽपिनास्ति, तस्मात्तत्पदयोग्यः कोऽप्यस्तीतिजिन्नासुर्नृपतिः सभासमक्षमिति प्रश्नंचकार-हे सम्याः ? यदि कश्चिन्नर पादप्रहारेणमांताडये. तर्हितस्यकि शिक्षणं विधेयम् ? ततोऽज्ञातनृपाभिप्रायाःसर्वेजना अवदन्-कृतापराधः स महादण्डस्यपात्रंजायते । अथभूपतिःस्वसन्निधौसंनिविष्टमजितसेनमपृच्छत्-महेभ्य ? बहून्देशान्भवानभ्रमदतस्त्वमस्य प्रश्नस्योचरं ब्रूहि, इत्थंनृपतेर्वचनं निशम्य श्रेष्ठी जगाद-भूपते ? विचारसाध्योऽयंप्रश्नस्ततोगृहंगत्वा पर्यालोच्य तदुत्तरं भवन्तं कथयिष्यामि। इतिनृपतिमभिधाय स निजनिकेतनमाययौ। आगत्य च निजपत्नींशीलवती राजप्रश्नं निवेदयामास, तदा चतसृषु विद्यासु परिनिष्ठितबुद्धिः | सा विचार्य तं कथयामास-स्वामिन् ? यदि नरः पादप्रहारंकरोति तदा राज्यमर्हति, यदिचप्रमदा पादप्रहारं विदधाति तर्हि | षोडशशृङ्गाराणां योग्या भवति, एवंनिजभार्यावचनं श्रुत्वाऽजितसेनोऽवदत्-वल्लभे? कथमेवमपराधिनः सत्कारोयुज्यते । शीलवत्यवोचत्-स्वामिन् ? राज्ञीराजकुमारी विनाऽन्यः कोऽपिजनो राजानं पादेन प्रहतुं न समर्थ इत्युक्तमात्रेण विगतशयो जितसेनोबभूव । स्वचित्तेनिजस्त्रिया बुद्धिवैभवंमुहुः संस्मृत्य परंविस्मयमवाप । अद्वितीयस्मिन्दिनेप्रातः समुत्थाय विहितनिजधर्मक्रियोजितसेनो राजसभप्रपद्य राजानं प्रणम्य पूर्वोक्तप्रकारेण तत्प्रश्नोत्तरं निवेदयामास । भूपतिस्तथाविधमुत्तरं
For Private And Persone n