________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजितमजितंरागेणागः प्रणाशनपण्डितं
स्फुटमनिकटीभूतः श्रीणांसयो न-विनौति तम् । सुरजनबन्धू नेत्रानन्द क्षण क्षण दाकर
करणवशगो न स्वं नान्यं प्रवेत्ति स मूढ धीः ॥३॥ विनमदमरराजीमौलिमालाग्रभागप्रवरमरकतालीभृङ्गसंसर्गशोभि । यदमलपद पद्मद्वन्द्वमदुन्द्ववन्दां
प्रतिदिनमनवयं मौलिनाऽहंवहामि ॥४॥ जिनवरमजित करोमि भक्त्या कृतकृतिविनुति कृपाकृपाणी । कृतकुमतभिदं हृदन्तराले नयविनययुतोऽहमेव देवम् ॥५॥ वन्दे शान्ति दत्तविश्वैक शान्ति भ्रान्तं भूयस्तैर्न यैगश्रितोऽसौ । संसारेऽस्मिन् दुर्निवारान्तरारिच्छेदच्छेकं मूर्त्तिमत्कल्पवृक्षम् ॥६॥ कासश्वासाङ्गहासादशननखमुखाक्षिक्षयग्रन्थि शोषा
तोसारश्लेष्मपित्तज्वरपवन कटीकण्ठविष्टाग्रहाश्व । ज्वालावालेयलूताश्रवणजठरजाऽपानकुष्टाङ्गदाहान स्युस्तस्यामया योऽजितमति विनयान्नौति शातिं च भक्तया ॥७॥
तृष्णोष्णे न पयो न मारिरपि न द्वीपी न दन्ती च नो
सिंहो न ज्वलानो न पन्नगभवा भीतिर्न भूतास्तु न । शकिन्यो न विनायका न तु विषं नरातयो नाजयो
न क्षेत्राधिपगोत्रपाः प्रतिभयं कुर्वन्ति तोस्तौतियः ॥८॥ यज्जन्मस्नात्रकृत्यक्षणमिलदमरश्रेणिराजैः सहर्ष
कुम्भैः सच्छातकुम्भैरमृतधृतपयः पूरपूणैरपूर्णम् । स्वर्णाद्रौ कर्म मुद्राभिमतपदप्राप्तुमेंबाप्रकामैः
ष स्नात्रंचित्तं पवित्रं निजनिजपरिसङ्गतैः संव्यधायि ॥९॥
For Private And Personal Use Only