________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
श्रीमद् बप्पभट्टि सूरीश्वरजी प्रणीत
(द्रुतविलंबितवृत्तम्) कुसुमबाण चमूभिरपीडितरित्तभिरतीव जगद्भिरपीडितः सकललोकभवन वृजिनाऽऽजितः शमयतादुरितानि जिनाजितः ॥१॥ कृतवतोऽसुमतां शरणान्वयं सकलतीर्थकृतां चरणान वयम् । सुरकृताभ्वुजगर्भ निशान्तकान्
रविसमान प्रणुमोऽघनिशाऽन्तकान् ।।२।। कृतसमस्तजगच्छुभवस्तुता जितकुवादिगणाऽस्तभवस्तुता । अवतु वः परिपूर्णनभा रतिर्नु मरुतो ददति जिन भारती ॥३॥ सुकणरत्नसरीसृपराजिता रिपुबलप्रहतावपराजिताम् । स्मरत तां धरणाग्रिमयोषितं जिनगृहेषु ययाऽश्रमयोषितम् ।।४॥
पं. श्री सुन्दरमुनि विरचित
(उपेन्द्रबज्रावृत्तम्) जितारिजातं नमतां हरन्तं, स्मराजित मानवमोहरागम् । जयत्यल यो यशसो-ज्वलेन, स्मराऽजितं माऽनवमो हरागं ॥१॥ जिना जयं ते त्रिजगन्नमस्या, दिशन्तु मे शंसितपुण्यभेदाः । यद्वार विधत्तेऽत्त नरं जितोरू, दिशं तु मेशं सितपुण्यव भे-दाः ।।२।। जिनागमानन्दितसत्त्व स त्वं दिशानि शं कल्पित कंदलालम् । कृपालता येन कृता त्वयाऽपृदिशानिशं कल्पितकंदलालम् ।।३।। पविं दधानाच्छविभाविताश, सा मानसी मा मत्रता-त्तताशा । या स्तूयतेडलं सुदृशा विशासत् सा मानसीमाऽमवतात्तताशा ॥४॥
For Private And Personal Use Only