________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५) प्रायव्ययविवेकी स्या नीतिसिद्धान्तमाश्रय ॥ दूरं कृत्वा प्रमादाँश्च, कर्म स्वाऽऽत्मगुणं कुरु ॥१३६॥ कुरु कर्म स्थिरो भूत्वा, अन्तर्गवं न धारय ॥ उत्तिष्ठाऽऽत्मस्वभावे त्वं, नान्यवित्तानि लुण्टय ॥१४०॥ विष्ठासमं परस्वं स्यान्मा,-तृतुल्याः परस्त्रियः ॥ स्वीकुरु नान्यधर्म त्वं, स्वं धर्म चोररीकुरु ॥ १४१ ॥ पदं लभ्येत शकस्य, प्राप्ती राज्यादिकस्य चेत् ॥ तत्र सारं न विज्ञाय, जैनधर्म प्रपालय ॥१४२ ॥ जैनधर्मात्परो नान्यः सर्वधर्मेण लभ्यते ॥ सर्वसत्याम्बुधिं धर्म, प्राप्य राज्यक्रियां कुरु ॥ १४३ ॥ अखिले चात्र संसारे, जैनधर्म प्रवर्तय ॥ मैत्र्यादिभावनां सुष्टु, भावयान्त दिवानिशम् ॥१४४॥ सहायं कुरु जैनानां, स्वार्पणेन यथातथम् ॥ एवं विधानतो भूप, मत्पदं लप्स्यसे स्वयम् ॥ १४५ ॥ जीव ! त्वं जैनधर्मार्थ, धर्म मा त्यज जीवक !!॥ स्वाधिकारेण धर्मं त्वं, धर दोषो न ते मतः ॥१४६॥ धर्म धर्येण युद्धेन, रक्ष कृत्वा बलादिकम् ॥ धर्मरक्षणतो देशे शान्तिः सर्वप्रजोन्नतिः ॥१४७॥ जैनरक्षा सुधर्मोऽस्ति, तेनाधर्म च नाशयेत् ॥ अल्पदोषो महालाभो, ज्ञायतां जैनसेवने ॥१४॥
For Private And Personal Use Only