________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४ )
चन्द्रसूर्याब्धयः सन्ति, सर्वार्थं नैकहेतवे ॥
- सर्वार्थं वृक्ष नद्याद्या, नैकस्य ममता नृप ॥ १२६ ॥ सहायं दान मन्योऽन्यं, लात्वाऽऽप्त्वा स्वं प्रपोषय | रक्षाऽन्योऽन्यं परंप्रेम, सर्वेषां क्षेममिच्छ च ॥१३०॥ एवं भावेन योजीवेत्स सौख्यं लभते नृप !! ॥ सन्तस्त्यागी प्रजा राजा, योगं क्षेमं लभेत च ॥ १३१ ॥ नान्यधर्मविनाशी स्यान्मद्विश्वासं नहि त्यजेत् । उदार एवं भूपचे लभन्ते प्रेम तत्प्रजाः ॥ १३२ ॥ नानीत्या धारये द्वैरं कुर्या द्वैरं न वा कलिम् । दुष्टानां दण्डने नीत्या, प्रचण्डं रूप माचरेत् ॥१३३॥ वर्तेत साम्यतो लोके, हृदि मत्प्रीतिमाचरेत् ॥ सवजीवसुखं चेच्छे, जीवानां दुःख माहरेत् ॥१३४॥ अल्पपापातिपुण्यानि कुर्यात्कर्माण्यसौ महान् ॥ सस्वकर्मगुणैर्भूपः प्रजा दुःखं निवारयेत् ॥ १३५॥ दासोपरि नवा कुप्ये बोधये दज्ञमानवान् ॥ मिथ्यादुष्कृतशोकेन कृतं पापं निवारयेत् ॥ १३६ ॥ निर्ममत्वकृतेः कर्ता, मयि ध्यानस्य धारकः ॥ षडावश्यककर्ता च द्वादशत्रतधारकः ॥ १३७ ॥ सम्यक्त्वादिगुणाधाता, स राजा मुक्तिधारकः ॥ चित्ते जानीहि हे भूप ! स्वं मन श्चापि पावय ॥ १३८ ॥
For Private And Personal Use Only