________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३) दुष्टप्रजानृपो यश्च, सोऽनुशेते तदन्तगः ॥ प्रजा दुष्टा नृपो दुष्टो, द्वय मन्ते विनश्यति ॥ ११६ ॥ यःशक्तः शासने कार्ये, नाऽऽसक्तो राज्यवस्तुनि ॥ राज्यप्रवर्तको भूपः सोऽस्ति जीवक धर्मतः ॥ १२०॥ सर्वकलाप्रवीणो यो, दीनो यो न विपत्तिषु ॥ पुरुषार्थी गुणी चाऽऽत्मा, समयज्ञः स भूपतिः॥१२१॥ पालयेत्सर्ववर्णान्यः सत्यस्नेही च साधुभिः ॥ जैनधर्म्यवने प्राणदाने यो वाऽस्ति निर्भयः ॥१२२॥ दुराचारात्यये कालो, दीनोपरि महादयी ॥ धारक श्चार्यनीतीनां, सत्यभूपः स जीवकः ॥ १२३ ॥ नाऽहेतुजनसंहारकरो नाऽन्यायधारकः । अन्ते स्वयं प्रजासंघो, दुष्टभूपं विनाशयेत् ॥१२४॥ भूपः प्रजाहितार्थं हि, योऽनुपो गुणकर्मतः॥ प्रजासंहारकर्ता योऽन्यायेनाऽसौ न भूपतिः ॥१२५॥ प्रजास्वार्पणसाम्राज्यनृपकार्य प्रजाहितम् ॥ भूपार्थ स्युः प्रजाप्राणाः सुसंकेतो यतःप्रभोः॥१२६॥ राज्यादेन भवेन्मोहो, निजकर्तव्य माचरेत् ॥ प्रजासंघचयो भूपः स्वान्ते मद्रूपमाप्नुयात् ॥१२७॥ सर्वेषां सदृशी भूमिः सर्वेभ्यः क्ष्माऽस्ति वस्तुतः ॥ पृथ्व्यप्तेजोनभोवाताः सर्वेभ्यः सन्ति वस्तुतः ॥१२॥
For Private And Personal Use Only