________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७)
निरीक्षते प्रजाः सर्वा, गृहे स्थित्वाऽतियोपितः ॥ दीनशापं न गृह्णाति, सराजा सत्य ईरितः॥ १० ॥ यत्र दासत्ववृत्तिर्न, प्रजा स्वातन्त्र्य मिच्छति ॥ दासाः सन्ति न यद्देशे, तत्र पापं न वर्तते ॥ ६१ ॥ न यत्र शूद्रधिक्कारो, नोच्चावचभिदा हृदि ॥ मर्यादा यत्र मारीणां, मृषावादो न यत्र च ॥ ६२ ॥ सर्वेऽपि सत्यमिच्छन्ति, कोऽपि मिथ्यान पुत्करः॥ भाति भूपप्रजास्वैक्यं, राज्ये देशे च शान्तयः ॥३॥ व्यभिचारो न वाऽस्तेयं, द्रोहिणो यत्र नो जनाः न ब्रूते कोऽप्यसत्साक्ष्यं, सत्यराज्यं जगत्सुतत्॥६॥ यत्र नार्थव्ययो न्याये, मिथ्याटोपो न वर्तते ॥ कार्य सर्वप्रजार्थं स्याद्, सत्यराज्यनृपस्ततः ॥ ६५ ॥ जैनधर्मस्थिती राज्यं, साम्राज्यमखिलं ततः .. सर्वराज्यं भवेद्यस्मा-, जैनधर्मः स विश्वगः ॥६६॥ जैनधर्मेऽखिलं राज्यं, जानतां सफला क्रिया ॥ दयादानं तपःसत्यं,-राज्यं सर्वेऽथ सद्गुणाः ॥६७॥ एकोऽन्यत्रेक्षते ज्योति-,राऽऽत्मराज्यं ततो जने ॥ राज्यं मात्याऽऽत्मविज्ञाने, पूर्णानन्दः प्रकाशते ॥६॥ प्रामाणिको जनो भूपस्तेन दुःखं विनश्यति ॥ प्रात्माधीनं मनोराज्यं,गुणिन् !! चित्ते प्रकाशय॥६६॥
For Private And Personal Use Only