________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपकुरु प्रजाः सर्वा, नरनारीश्च शिक्षिताः ॥ कार्या रोगादिनाशार्थ-, मुपचारास्त्वया पुनः ॥५०॥ दुष्कालादिप्रसंगेषु, सर्वोपायान् समाचर ॥ वारय व्यभिचारादीन् , धर्मिणश्च नरान्कुरु॥ ५१ ॥ राज्यकर्मप्रबन्धाश्च, पश्य नान्धो भव स्वयम् ॥ लभस्व सर्वशक्तीश्च, कर्म शक्तिमतां कुरु ॥५२॥ बलिनां सर्वदा राज्य, राज्यं कार्य न दुर्बलैः ॥ विद्या ततोऽस्ति साम्राज्यं, तद्राज्यं यस्य शक्तयः॥५३॥ सर्वप्रकारतो दक्षो, भव स्वप्रगतिं कुरु । धैर्यतः कुरु कर्माणि, साम्राज्यं वृद्धि माप्स्यति ॥५४॥ मिथ्यादुष्टाश्च पाखण्डा, स्तदाटोपं निवारय ॥ रक्ष सर्वप्रजास्तुल्याः, सत्यं ब्रूहि च निर्भयः॥ ५५ ॥ प्रजोन्नतिकृते यश्च, वर्तते स्वं समर्पयन् ।। स राजा राजयोग्योऽस्ति, दयादानदमैः कृती ॥५६॥ सर्वजीवेषु मां पश्ये-, दात्मवद्वर्तनं शुभम् ॥ सेवकः सर्वलोकानां, राजा गण्यो हि सेवनात् ॥५७॥ पश्येत्प्रजासमं स्वं च, शं लभेत प्रजोन्नतेः ॥ कुर्वन्साधुसतां मानं, शृण्वन् शिक्षां च धारयन् ॥५८॥ सत्यस्य यश्च संगी स्याद्, नासत्ये यश्च मुह्यति ॥ सर्व माध्यस्थ्यतः पश्ये-त्स राजा स्वर्गमश्नुते॥६०॥
For Private And Personal Use Only