SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३ ) " लोकाः पुत्रसमा यत्र, न मुह्यन्ति कुनीतितः ॥ स्वार्थान्धो न कदाचित्स्यात्, स्प्रजाप्रेम स्वपुत्रवत् ॥ २० ॥ सत्यप्रजां वदेत्स्पष्टं विस्मृतिं स्वां क्षमापयेत् ॥ न मुह्येत्कामभोगेषु, न कुर्यात्सत्तया मदम् ॥ २१ ॥ एवं राजा भवेद्यत्र तत्र धर्मः प्रवर्धते ॥ पुण्यवृद्धिस्ततो वृष्टी, - रसैः सृष्टिश्च शोभते ॥ २२ ॥ असत्करो न चान्याय, स्तत्र राजाऽपि शोभते ॥ गुणवान्सात्त्विको भूप, स्तत्र शान्तिर्गुणाकरः ॥२३॥ दुर्गुणाद्व्यसनाद्दूरं येषु सत्त्वदयामहः ॥ स्यात्प्रजापालनं यत्र तत्र धर्मोऽपि वर्धते ॥ २४ ॥ " वर्तन्ते नीतयः सर्वा, न्यायस्तुल्यः प्रजेशयोः ॥ प्रजाभूपेष्वभेदः स्यात्, तत्र खेदो न जायते ॥२५॥ हितमन्योन्यमिच्छन्ति, विद्यालक्ष्म्योर्न वा मदः ॥ अन्योऽन्यं स्वार्पणं यत्र तत्र वृद्धिश्च भूरिशः ॥ २६ ॥ द्वयोः स्वार्थं यतश्चैकं, परमार्थं हि जीवनम् ॥ मर्यादां न त्यजेत्कोsपि, वृद्धिस्तत्र प्रजेशयोः ॥ २७ ॥ " 9 न सन्ति नीतयो यत्र तत्र राजापवादितः ॥ स्वीकृत्य गच्छ चाज्ञां मे, प्रीणय मत्समां प्रजाम् ॥२८॥ दूरीकर्तुं च दुःस्वार्थ, राजतेजश्च वर्तते ॥ निष्कासय धियं दुष्टां, दुष्टकामांश्च भञ्जय For Private And Personal Use Only ॥ २६ ॥
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy