________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) लेशं दुष्टवशो माभूः, क्लेशं नान्यायतः कुरु ॥ श्रद्धेहि जैनधर्मेषु, सत्यां वाचं च भाषय ॥३०॥ स्यात्सुखं कर्मभिःपुण्यैः, दुःखं स्यात्पापकर्मणा ॥ प्रजाः पुण्येन रक्ष त्वं, पापकर्म च वारय ॥ ३१ ॥ देशस्य पापपुण्याभ्यां, देशो दुःखी तथा सुखी ॥ . 'पुण्यं स्थापय वर्णेषु, हिसां वारय देशतः ॥ ३२ ॥ पशुपक्षितरून्रक्ष, दक्षः स्याजनरक्षणे ॥ न्यायं कुरु स्वयं सर्व, स्वयमावश्यकं कुरु ॥३३॥ दुःखिनां कुरु संभारं, साधून धेनूश्च पालय ॥ वारय व्यसनं देशा,-नरनारीसुखं कुरु ॥३४॥ दुष्टान्दण्डय नीत्या स्व, मुद्यतस्व प्रजाऽवने ॥ साधूनां सेवनं साध्यं, मां परब्रह्म भावय ॥३५॥ व्यवस्थां कुरु राज्यस्य, स्वयं प्रामाणिको भव ॥ सम्मानय च लोकानां, निर्विवेकी न वा भव ॥३६॥ गच्छ संगृह्य गाम्भीर्य, वारय दुष्टवासनाः ॥ जैनधर्मं जगद्वयाप्तं, कुरु जन्म फलं शुभम् ॥ ३७॥ त्यज भोगविलासं च, धर वैराग्य मान्तरम् ॥ सर्वजीवे शुभं रागं, कुरु जीवक! ! धर्मतः ॥ ३८ ॥ पक्षपातं त्यजाशु त्वं, व्यर्थगर्व नवा कुरु ।। शत्रुतः सावधानः स्या, यथायोग्यं च शिक्षय॥३६॥
For Private And Personal Use Only